________________
उत्तराध्ययन
॥ १३५ ॥
॥ अथ पञ्चविंशमध्ययनम् ॥
॥ ॐ ॥ उक्तं चतुर्विंशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थं जयघोषकथालेशो लिख्यते । तथा हि
वाराणस्यामभूतां द्वौ द्विजौ युग्मजसोदरौ ॥ काश्यपौ जयघोषाख्य - विजयघोषसंज्ञकौ ॥ १ ॥ जयघोषोऽन्यदा खातुं गतो गङ्गां व्यलोकत ॥ सर्पमेकं मुखोपात्त - रटन्मण्डूकभक्षकम् ॥ २ ॥ गृहीत्वा स भुजङ्गोऽपि, क्षणात् कुररपक्षिणा ॥ उत्क्षिप्याधिक्षिति क्षिप्तः, प्रारेभे भक्षितुं द्रुतम् ॥ ३ ॥ तेन सन्दंशदेशीय - त्रोटिनोटितविग्रहम् ॥ भक्ष्यमाणोऽप्यहिकं, रटन्तं तं जघास सः ॥ ४ ॥ तं च प्रेक्ष्य मिथोग्रासं जयघोषो व्यचिन्तयत् ॥ अहो ! भवस्य काप्येषा, स्थितिरस्थितसुस्थता ॥ ५ ॥ यो हि यस्मै प्रभवति, ग्रसते तं स मीनवत् ॥ न तु गोपायति स्वीयशक्ति कोऽपि नदीनवत् ॥ ६ ॥ कृतान्तस्तु महाशक्ति - रिति स प्रसतेऽखिलम् ॥ तदसारेऽत्र संसारे, का नामास्था
१ स तं प्रसति मीनवत् । इति "घ" पुस्तके ॥ २ रिति सर्वे प्रसत्य हो । इति "घ" पुस्तके ॥
पश्चविंशमध्ययनम्. जयघोषर्षि
कथालेशः
१-६
UTR-3