________________
उत्तराध्ययन ॥१२३॥
त्रयोविंशमध्ययनम्. गा८८-८९
मूलम् केसिगोअमओ णिचं,तम्मि आसि समागमे।सुअसीलसमुक्करिसो, महत्थत्य विणिच्छओ८८॥
व्याख्या-केशिगौतमत इति केशिगौतमावाश्रित्य नित्यं तत्र पुर्यामवस्थानं यावत् , तस्मिन् समागमे मीलके श्रुतशीलसमुत्कर्षों ज्ञानचरणप्रकर्षः, तथा महार्था मुक्तिसाधकत्वेन महाप्रयोजना ये अर्थाः शिक्षाव्रतादयस्तेषां विनिश्चयो निर्णयो महार्थार्थविनिश्चयः, आसीत्तच्छिष्यापेक्षयेति गम्यते ॥ ८८॥ तथा
मूलम्-तोसिआ परिसा सवा, सम्मग्गं समुवट्टिया।
संथुआ ते पसीअंतु, भयवं केसीगोअमत्ति बेमि ॥ ८९ ॥ व्याख्या-तोषिता पर्षत्सर्वा सन्मार्ग मुक्तिपथमनुष्ठातुमिति गम्यते, समुपस्थिता उद्यता । अनेन पर्षदः फलमाह । इत्थं तचरितवर्णनद्वारा तयोः स्तुतिमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवन्तौ केशिगौतमाविति सूत्रयार्थः ॥ ८९ ॥ इति ब्रवीमीति पूर्ववत् ॥ ജയായ ഇയറായ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोविंशमध्ययनं सम्पूर्णम् ॥ २३॥ कन्टन्हन्ब्लन्ड न्न्याहळia
UTR-3