________________
उत्तराध्ययन ।११४॥
त्रयोविंशमध्ययनम्.
(२३)
गा५१-५३
| मूलम-महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते उ, सित्ता नोअदहति मे॥५१॥ ___ व्याख्या-महामेघप्रसूतात् श्रोतस इति गम्यते, 'गिज्झत्ति' गृहीत्वा वारि जलं, जलोत्तमं शेषजलप्रधानं, सिञ्चामि विध्यापयामि सततं ते उत्ति' ताननीन् , सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ॥ ५१ ॥
मूलम्-अग्गी अ इइ के वुत्ते, केसी गोअममब्बवी।
तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥ ५२ ॥ व्याख्या-अग्निप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ॥५२॥ मूलम्-कसाया अग्गिणो वुत्ता, सुअसीलतओ जलं। सुअधाराभिहया संता, भिन्ना हुन डहति मे ॥५३ |
व्याख्या-कषाया अग्नयः परितापकतया शोषकतया चोक्ता जिनैः । श्रुतं च उपचारात् कपायोपशमहेतवः श्रुतान्तर्गता उपदेशाः, शीलं च महाव्रतरूपं, तपश्च प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि । अस्य चोपलक्षणत्वान्महामेघो जगदानन्दकतया तीर्थकरः। श्रोतस्तु तत उत्पन्नः आगमः। उक्तमेवार्थमुपसंहरन्नाह-'सुअत्ति'श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धारास्तत्परिभावनादिरूपास्ताभिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादु. क्तरूपा अग्नयो भिन्ना विदारिता धाराभिघातेन लवमात्रीकृताः, हुः पृत्तौं, नदहन्ति मामिति सूत्रपञ्चकार्थः॥५३॥
UTR-3