SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। २१ ।। क्षमयित्वा च, खागः सोऽपि गृहं ययौ ॥ १० ॥ मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधे किल कोपम् ॥ तद्वदेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ॥ ११ ॥ इति क्रोधासलीकरणे कुलपुत्रकथा || तथा 'धारिजत्ति' धारयेत् समतयाऽवधारयेत्, प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं निन्दादि, न तयो रागं द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे || अमंदमांद्यपीडाभि र्विद्रुते चाखिले जने ॥ १ ॥ तच्छान्तये च भूपेन, डिंडिमे वादिते सति ॥ भूभुजोऽभ्यर्णमभ्येत्य, जगदुमत्रिकास्त्रयः ॥ २ ॥ [ युग्मम् ] शमयामो वयं स्वामि-नाशिवं भवदाज्ञया ॥ नृपोऽजल्पदुपायेन, केनेति ब्रूत मांत्रिकाः ! ॥ ३ ॥ तेष्वेकोऽथाब्रवीद्रूपं, पृथ्वीनाथावधार्यताम् ॥ मंत्रसिद्धं ममास्त्येकं भूतं सद्यः शिवंकरम् ॥ ४ ॥ तच्चातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् ॥ न वीक्षणीयं दृष्टं तु, द्रष्टारं हन्ति कोषतः ॥ ५ ॥ तत्प्रेक्ष्याधोमुखं तिष्ठे - द्योऽसौ रोगैर्विमुच्यते ॥ तदाकर्ण्य जगौ राजा, चंडेनानेन नः कृतम् ! ॥ ६ ॥ अथावादीद्भूतवादी, द्वितीयोऽवनिवल्लभम् || मंत्रसिद्धं ममाप्यस्ति, भूतं नूतनशक्तियुक् ॥ ७ ॥ तच्चातिलंबविस्तीर्ण - कुक्षिकं पंचमस्तकम् ॥ एकक्रमं शिखाहीनं, बीभत्सं श्यामलं महत् ॥ ८ ॥ गायन्नरीनृतन्मुंचदट्टहासान् पदे पदे ॥ रूपं विधाय सकले, पुरे भ्रमति सर्वतः ॥ ९ ॥ [ युग्मम् ] तद्वीक्ष्योपह सेत्सम्यक् प्रविलोके वा न यः ।। दूषयेद्यश्च तन्मौलि - द्रुतं भिद्येत सप्तधा ॥ १० ॥ यस्त्वर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् ॥ प्रथमाध्यय नम् (१) UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy