SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ॥ १८ ॥ | मभाषत ॥ ७ ॥ दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् ॥ तत् प्रसद्य भवांभोधि- तारकं दत्त मे व्रतम् ॥८॥ | धूर्तः प्रतारयत्यस्मा-नर्मवाक्यैर्मुहुर्मुहुः ॥ तघृष्यतामसौ सम्यक्, चिंतयित्वेति ते जगुः ॥९॥ गुरोरधीना न वयं, स्वयं दीक्षादि दद्महे ॥ तदाश्रय व्रताय त्व-मस्मद्गुरुमितः स्थितम् ॥ १०॥ श्रुत्वेति सवयस्योऽथ, सोऽब्रजत्सूरिसन्निधौ ॥ अब्रवीत्तं च वंदित्वा, सोपहासं कृतांजलिः ॥ ११ ॥ गृहन्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदानयोः॥ तत्प्रव्राजय मां स्वामि-स्तिष्ठामि ससुखं यथा ॥ १२ ॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः ॥ सूरिजगौ व्रतेच्छुश्चे-त्तदा भस्मानय द्रुतम् ॥ १३॥ ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् ॥ तं गृहीत्वा स्वबाहुभ्यां, | लोचं कृत्वा ददौ व्रतम् ॥ १४ ॥ तद्विलोक्य विषण्णास्त-द्वयस्यास्तमथाभ्यधुः ॥ मित्र ! सद्यः पलायख, धाम यामो वयं यथा ॥ १५॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिंतयत् ॥ कथं गच्छाम्यहं गेहं, खवाचा स्वीकृतव्रतः॥१६॥ प्रमादसंगतेनापि, या वाक् प्रोक्ता मनखिना ॥ सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा भवेत् ॥ १७ ॥ नर्मणापि | | मया लब्धं, रक्षणीयं ततो व्रतम् ॥ जहाति धुमणि को हि, विनायासमुपस्थितम् ॥ १८ ॥ ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत ॥ यथास्थानं ततो जग्मु- स्तद्वयस्या विषादिनः ॥ १९ ॥ विनेयोऽथावदत्सूरिं, भगवन् ! बंधवो मम ॥ श्रामण्यं मोचयिष्यंति, तद्यामोऽन्यत्र कुत्रचित् ॥ २०॥ गच्छो महानसौ गच्छन् , प्रच्छन्नमपि यजनैः॥ ज्ञायते तद् द्वयोरेवा-ऽऽवयोगमनमर्हति ॥ २१ ॥ सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय ॥ यथा रजन्यां UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy