________________
।। १२ ।।
तेनेति, बालवद्वालिशो जनः ॥ तं स्तूपं भंक्कुमारेभे धूर्तेः को न हि वच्यते ॥ १५ ॥ स्तूपे च भंक्तुमारब्धे, गत्वा मागधिकाधिपः ॥ सद्योऽपासारयचंपा - धीशं क्रोशद्वयं ततः ॥ १६ ॥ ततः स प्रत्ययैलेकिः, स्तूपे मूलात्प्रपातिते ॥ व्याघुट्य कूणिकोऽविक्षत् पुरीं सबलवाहनः ॥ १७॥ तदा चानशनं कृत्वा स्मृत्वा पंचनमस्क्रियाः ॥ चेटको न्यपतत् कूपे, बद्धाऽयः पुत्रिकां गले ॥ १८ ॥ तदा तत्रासनास्थैर्या-दागत्य धरणाधिपः ॥ साधर्मिकं तमादाय, निनाय भवने निजे ॥ १९ ॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ ॥ २० ॥ इतश्च सुज्येष्ठासून - दौहित्रश्चेटकप्रभोः || वैशाल्यामाययौ देवा - तदा सत्य किखेचरः ॥ २१ ॥ मातामहप्रजां सर्वा, लुंट्यमानां स रक्षितुम् ॥ निनाय नीलवत्यद्री, द्रुतमुत्पाट्य विद्यया ॥ २२ ॥ कोपाविष्टः कूणिकोऽथ, तां पुरीं युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण प्रतिज्ञः खपुरीं ययौ ॥ २३॥ कूलवालकनामा तु, मृत्वागान्नरकं कुधीः ॥ उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ॥ २४॥ कूलवालकमुनेरिव दुःखा - वातिरेवम विनीतमुनेः स्यात् ॥ धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोर्विनय एव विधेयः ॥ २५॥ इतिकूलवालककथा, इति सूत्रार्थः ॥ ३ ॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाह - मूलम् - जहा सुणी पूइकण्णी, निक्कसिज्जइ सवसो । एवं दुस्सील पडिणीए, मुहरी निक्कसिज्जइ ॥४॥
व्याख्या- यथा शुनी, पूती परिपाकात् कुधितगन्धौ उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काश्यते बहिः कर्ष्यते, 'सबसोत्ति' सर्वेभ्यो गृहांगणादिभ्यो "हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्व, अत्र च शुनीति
UTR-1