SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्यबनम् (५) ।।३४३ ॥ याकल्पितानि व्रतिलिङ्गान्यपि, किं ? पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतः, कमित्याह-दुःशीलं उत्तराध्ययन |KI दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्यायं प्रासं, आपत्वाच याकारस्यैकस्य लोपः। न हि कषायकलुषचेत | सोऽतिकष्टहेतुरपि बहिर्बकवृत्तिर्नरकादिकुगतिनिवारणायालं ! ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥२१॥ ननु ? कथं गृहायभावेपि तेषां दुर्गतिरिति चेदुच्यतेमूलम्-पिंडोलएव दुस्सीले, नरगाओ न मुच्चई। भिक्खाए वा गिहत्थे वा, सुब्बए कमई दिवं ॥२२॥ __ व्याख्या-'पिंडोलएचत्ति' वा-शब्दोऽपि शब्दार्थस्ततश्च पिण्डावलगकोऽपि खीयाहाराभावतो भक्ष्यसेवकोपि, Ine आस्तां गृहादिमान् , दुःशीलो नरकात्वकर्मोपस्थापितात् सीमन्तकादेन मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः____ तथाहि द्रमकः कोपि, पुरे राजगृहेऽभवत् ॥ स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ॥ १॥ वैभारगिरिपा वस्थ-मुद्यानं स गतोन्यदा ॥ उद्यानिकार्थमायातं, जनं भुञ्जानमैक्षत ॥ २॥ ततः स तत्र भिक्षार्थ, पर्यभ्राम्यन्मुहुर्मुहुः ॥ वदन्नुचैः खरं दीन-वचांसि रसलोलुपः ॥ ३॥ न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन ॥ ततः प्रद्वि- | टचित्तः स, दुष्टधीरित्यचिन्तयत् ॥ ४ ॥ अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं खयम् ॥ दीनाय न तु मे खल्पकमपि यच्छन्ति निर्दयाः॥५॥ तदमूनुपवैभारं, निविष्ठान् दुष्टचेतसः ॥ कयाचिच्छिलया तूर्ण, चूर्णयामीति चिन्त १ पिण्डं परदत्तग्रासमवलगते सेवते इति पिण्डावलगः स एव पिण्डावलगकः । PYAROMAN.VERY UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy