________________
।। २९४ ।।
वर्णद्रवेणेव, पीयूषेणेव निर्मिताम् ॥ तां वीक्ष्य विस्मितश्चित्ते, कुमारो ध्यातवानिति ॥ ४५ ॥ [त्रिभिर्विशेषकम् ] किमियं कमला नाग-कनी देवाङ्गनाऽथवा ॥ विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरस्वती ? ॥ ४६॥ ध्यात्वेत्यूचे च तां सुभ्र !, काऽसि त्वं कस्य वा सुता ? ॥ मां कलाभ्यासरक्तञ्च, परिमोहयसे कुतः ? ॥४७॥ सानन्दा सा ततः प्रोचे, नाम्ना मदनमंजरी ॥ बन्धुदत्ताभिधश्रेष्ठि-मुख्यस्य तनयाऽस्म्यहम् ॥४८॥ इहैव हि पुरे यूना, केनाप्यस्मि विवाहिता ॥ इदं तु मन्दिरं विद्धि, मपितुगुणमन्दिरम् ॥ ४९॥ त्वां च दृष्ट्वा जगजैत्र-रूपं चित्ताजभास्करम् ॥ जातास्म्येषा महाभाग !, त्वदेकायत्तजीविता ॥ ५० ॥ मारधिकारिरूपस्त्वं, यतःप्रभृति वीक्षितः॥ ततः प्रभृति मामुच्चैर्बाधते घस्मरः स्मरः ! ॥५१॥ कामदाघज्वरोच्छित्यै, नित्यं त्वदर्शनामृतम् ॥ पिबामि स तु तेनापि, वृद्धिमेव प्रयात्यहो! ॥५२॥ अमृतस्यापि तन्नन-मसाध्योऽसौ महाज्वरः ॥ नो चेत्तद्धोजना देवाः, सन्ताप्यन्तेऽमुना कथम् ? ॥५३॥ त्वत्सङ्गमैकगोशीर्ष-साध्योऽयमथवा ज्वरः ॥ परःशतैरपि परै-हीयते भेषजैः कथम् ? ॥५४॥ तद्दोषज्ञोपचार मे, न करिष्यति चेद्भवान् ॥ तदावश्यमयं जन्तुः, परलोकं गमिष्यति !॥ ५५॥ यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा ॥ तथा निर्वापय खाङ्ग-सङ्गमेनाङ्गमप्यदः ॥५६॥ इति तद्वाक्यमाकर्ण्य, कुमारोन्तरचिन्तयत् ॥ नूनं कामानलप्लुष्टा, प्राप्नुयात्प्रान्तमप्यसौ ॥ ५७ ॥ “प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश ॥ तत्राद्यायां भवेचिन्ता-ऽपरस्यां सङ्गमस्पृहा ॥५८॥ तृतीयायां तु निःश्वास-श्चतुया तु स्मरज्वरः॥
UTR-1