________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
।। २८७॥
क्षणम् ॥ १६ ॥ मुनिानी जगौ गम्यं, खकार्येण मया द्रुतम् ॥ विश्रामाय ततो नाहं, स्थास्थामीह महामते ! ॥ १७ ॥ वणिकू प्रोचेन्यकार्येणा-ऽप्यार्य ! किं कोपि गच्छति ? ॥ यद्भवद्भिः स्वकार्येण, मया गम्यमितीरितम् ! ॥१८॥ उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः ॥ भार्याद्यर्थ क्लिश्यमान-स्त्वमेवात्र निदर्शनम् ॥ १९॥ इत्येकेनैव वाक्येन, प्रतिबोधमवाप सः ॥ समयाह वचः खल्प-मपि हि स्यान्महाफलम् ! ॥२०॥ ततः पूज्याः क तिष्ठन्तीत्यपृच्छत्तं मुनि वणिक् ॥ जगाद यतिरुद्याने, तिष्ठाम्यहमितः स्थिते ॥२१॥ निर्ग्रन्थोऽथ पुरे गत्वा, प्राप्तप्रासुकभोजनः ॥ उद्यानेगात्कृताहारः, खाध्यायं च व्यधात्सुधीः ॥ २२ ॥ वेलानुसारतो ज्ञात्वा, कृताहारं | तपोधनम् ॥ गत्वा तदन्तिके श्रौषी-जैन धर्म स नैगमः ॥२३॥ बन्धूनापृच्छय दीक्षाय, यावदायाम्यहं विभो !॥ तावत्पूज्यैरिह स्थेय-मित्यूचे च विरक्तधीः ॥ २४ ॥ गृहे च गत्वा खजनान् , जायां चेति जगाद सः॥ हट्टव्या| पारतो लाभः, खल्प एव प्रजायते ॥२५॥ करिष्ये देशवाणिज्य, प्राज्यलाभकृते ततः ॥ तच स्यात्सार्थवाहेन, विद्यते | द्वौ च ताविह ॥ २६ ॥ तत्रैकः खधनं दत्वा, नयते पुरमीहितम् ॥ तत्र चोपार्जिते वित्ते, भागं गृह्णाति न खयम् ॥ २७ ॥ द्वितीयस्तु निजं वित्तं, प्रदत्ते नैव किञ्चन ॥ पूर्जितं च सकलं, सेवितः सन् विलुम्पति ॥ २८ ॥ तद्रूत सार्थनाथेन, केन साकं ब्रजाम्यहम् ? ॥ खजनाः प्रोचिरे यातु, प्रथमेन समं भवान् ॥ २९॥ ततः स बन्धुभिस्सत्रा, तत्रोद्याने द्रुतं ययौ ॥क सार्थवाह इति तैः, पृष्टश्चैवमवोचत ॥३०॥ स्थितः किङ्केलिवृक्षाधः, साधुरेष गुणो
UTR-1