________________
उत्तराध्ययन
चतुर्थमव्य
यनम्(४)
।। २७५॥
कर्मभिर्जरोपनीतस्तस्य 'हु' इति निश्चये नास्ति त्राणं शरणं, येन जराऽपनीयते न तच्छरणमस्ति, यदुक्तं-“रसायणं निसेवंति, मजं मंसं रसं तहा ॥ भुंजंति सरसाहारं, जरा तहवि न नस्सए ॥१॥" जराजर्जरवपुषश्च नैव ताशी धर्मकरणशक्तिः स्यात्ततो यावदसौ न व्याप्नोति तावद्धर्मे मा प्रमादीः । उक्तं च-"तद्यावदिन्द्रियबलं, जरया रोगैर्न बाध्यते प्रसभम् ॥ तावच्छरीरमूछी, त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ १॥" जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनमल्लो दृष्टान्तस्तत्र चायं सम्प्रदायः, तथाहि
उज्जयन्यां नगयाँ श्री-जितशत्रुर्नृपोऽभवत् ॥ तत्र चाप्रतिमलोभून्मलराजोऽट्टनाभिधः ॥ १॥ स च गत्वान्यराज्यस्थै-रपि मल्लैरयुध्यत ॥ तस्य दोर्दण्डकण्डूस्तु, व्यपनिन्ये न केनचित् ॥ २ ॥ तदा चाम्भोधितीरस्थे, पुरे सोपारकाभिधे ॥ मलयुद्धप्रियः सिंह-गिरिसंज्ञोऽभवन्नृपः ॥ ३ ॥यो मलेष्वजयत्तस्मै, भूपः सोऽदाद्धनं घनम् ॥ इति तत्राऽट्टनो गत्वा, प्रत्यन्दमजयत्परान् ॥४॥ ततः सिंहगिरिर्दध्यौ, यदागत्यान्यराज्यतः ॥ अयं जयति मन्मल्लान्ममापभाजना हि सा ॥ ५॥ ततोऽहमपरं कश्चि-त्कुर्वे मलं बलोत्कटम् ॥ ध्यात्वेति मार्गयन्मलं, वार्द्धितीरे ययौ नृपः ॥ ६ ॥ वसां पिबन्तं मीनानां, तत्राद्राक्षीच धीवरम् ॥ ततस्तं बलिनं ज्ञात्वा, पोषयामास पार्थिवः ॥७॥ अशिक्षयन्नियुद्धं च, भूपस्तस्य तरखिनः ॥ ततः सोऽभून्महामलो-जय्योन्यहस्तिमलवत् ॥ ८॥ अथानो नियुदाहे, समासन्ने निजात्पुराप्त् ॥ शम्बलेन बलीवर्द, भृत्वा सोपारकं ययौ ॥९॥ स च मात्स्यिकमलेन, नियुद्धे
UTR-1