________________
॥ अथ चतुर्थाध्ययनम् ॥
।। २७४ ।।
॥ अर्हन् । उक्तं तृतीयमध्ययनमथ चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने चतुरङ्गी दुर्ल भेत्युक्तमिह तु तत् प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया वक्तुं प्रमादाप्रमादाभिधं चतुर्थाध्ययनमाह, तस्य चेदमादिसूत्रम्मूलम्-असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नत्थि ताणं ॥
एअं विआणाहि जणे पमत्ते, कं नु विहिंसा अजया गहिति ॥ १॥ व्याख्या-असंस्कृतं असंस्करणीयं, जीवितं प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस्य वा तस्य कर्णपाशवत्सन्धातुमशक्यत्वात् , यदुक्तं-“वासाई दोण्णि तिण्णि व, वाहिजइ जइ घरं पि सीडेइ ॥ सा का वि नत्थि नीई, सीडिजइ जीविरं जीए !॥ १॥” तथा-"मङ्गलैः कौतुकैर्योग-विद्यामंत्रैस्तथौषधैः ॥ न शक्ता मरणात्रातुं, सेन्द्रा देवगणा अपि ! ॥१॥” ततः किं कार्यमित्याह- मा प्रमादीः, अयं भावः- यद्यायुः कथञ्चित्संस्कर्तुं शक्यं स्यात्तदा चतुरङ्गीप्राप्तायपि न प्रमादो दोपाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां भूयो दुर्लभेति मा प्रमादं कृथाः। ननु ? वार्धक एव धर्म करिष्यामीति कोऽपि वक्ति इत्याशंक्याह-जरामुपनीतः प्रापितो गम्यमानत्वात्ख
UTR-1