SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ॥ २५०॥ मताः ॥ ३२ ॥ वाच्यं न चेदं त्रैविध्य-मयुक्तं युक्तिवेदिभिः ॥ दण्डादावादिमध्यान्त-रूपत्रैविध्यदर्शनात् ॥ ३३॥ भावेष्वेवं जगत्काल-मुख्येषु सकलेष्वपि ॥ त्रैविध्यं दृश्यते तन्न, द्वैविध्यं स्यादिहोचितम् ॥ ३४ ॥ तेनेति राशित्रितयं, व्यवस्थाप्य पराजितः ॥ परित्राट् तज्जयायाऽथ, वृश्चिकान् विदधे बहून् ॥ ३५॥ ऊर्कीकृतोरुपुच्छांस्तानायातो वीक्ष्य दुर्धरान् ॥ रोहगुप्तो व्यधाद्भूरि-बर्हिणस्तन्निबर्हणान् ॥ ३६ ॥ वृश्चिकेषु मयूरैस्तै-निहतेषु त्रिद| ण्डिकः ॥ भोगाभोगेन कीनाश-दण्डाभान् भोगिनोऽतनोत् ॥ ३७ ॥ दृष्ट्वोत्कटस्फुटाटोप-विकटांस्तानथो मुनिः ॥ | चकार नकुलांस्तैश्च, ते व्याला जनिरे द्रुतम् ॥ ३८ ॥ ततः परिबाड् विदधे, मूषकान् दशनोद्यतान् ॥ रोहगुप्तविमुक्तस्ते-ऽप्योतुभिाग् निजक्षिरे ॥३९॥ तीक्ष्णशृङ्खास्ततोऽमुञ्च-त्स परिव्राजको मृगान् ॥ तेऽपि व्याप्रैः साधुमुक्तै-निहता विलयं ययुः ॥ ४०॥ चकार शूकरान् सोऽथ, त्रिदण्डी चण्डदंष्ट्रिकान् ॥ रोहगुप्तोऽपि तान् | रुद्रैः, पारीन्द्राक् न्यवारयत् ॥४१॥ मुमोचाऽथ द्विकव्यूहान् , वज्रतुण्डांस्त्रिदण्डिकः ॥ तांश्च न्यषेधयद्विद्याविहितैः कौशिकैब्रती ॥४२॥ अतिदुष्टाः शकुनिका-स्ततः सन्यासिकोऽमुचत् ॥ श्येनैर्निरुत्तरीचक्रे, तांश्च साधु महाबलैः ॥४३॥ विद्याभिराभिस्तं जेतुं, परित्रा नाऽशकद्यदा ॥ तदा स मुमुचे विद्या-निर्मितां रासभी रुषा | ॥४४॥ तां चायान्तीं रोहगुप्तो, निरीक्ष्य परितस्तनुम् ॥ तद्रजोहरणं भ्राम, भ्रामं तेन जघान ताम् ॥ ४५ ॥ तन्महिना निष्प्रभावा, निवृत्ता साऽपि रासभी ॥ तस्योपरि परिव्राज-छर्दयित्वा तिरोदधे ॥४६॥ क्षीणविद्या UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy