________________
।। २२४ ॥
जनतागोष्ठी क्षणेनापि यः ॥ मार्गेप्यङ्गुलिलग्न एव जनकस्याभ्येति न श्रयसे ॥ हा ! खाहाप्रिय ! धूममङ्गजमिमं | सूत्वा न किं लज्जितः ? ॥ ६७ ॥” गतसर्वखवद्भूपे, ध्यायत्येवमधोमुखे ॥ उवाच सचिवः खामिन् !, किमेवं दुर्म| नायसे ? ॥ ६८ ॥ बभाषे भूपतिर्मत्रिन् !, पुत्रैरेभिरशिक्षितैः ॥ ध्वस्तो मे महिमा तेन, दौर्मनस्यं श्रयाम्यहम् ! ॥ ६९ ॥ मयूचे दौर्मनस्येन, कृतं यत्ते सुतोऽपरः ॥ सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः ॥ ७० ॥ राधावेधं विधातुं स, प्रभूष्णुर्विद्यते प्रभो! ॥ तदाकाऽभ्यधाद्भपो, मत्रिन्नाहं स्मरामि तम् ! ॥ ७१ ॥ राज्ञः पुरं ततो वृत्त-पत्रं तत्सचिवोऽमुचत् ॥ तद्वाचयित्वा स्मृत्वा च, सर्व भूपोऽप्यमोदत ॥ ७२ ॥ क्वाऽधुना स सुतोऽस्तीति, राज्ञोक्ते धीसखोऽपि तम् ॥ दर्शयामास भूपोऽपि, तमालिङ्गयेत्यवोचत ॥ ७३ ॥ राधावेधं साधयित्वा, वत्स ! केनाप्यसाधितम् ॥ राज्ययुक्तां कनीमेनां, स्वीकुरु त्वं महामते ! ॥ ७४ ॥ ततः प्रमाणमादेशः, पूज्यानामित्युदीर्य सः ॥ स्तम्भस्य तस्य पार्थे च, गत्वा चापमुपाददे ॥ ७५ ॥ अधिजीकृत्य तत्सत्य- सन्धः संधाय चाशुगम् ॥ ऊर्द्धमुष्टिरधोदृष्टि-स्तत्र तस्थौ च भूपभूः ॥ ७६ ॥ दध्यौ निवृत्तिकन्याऽपि, वीक्ष्य तं रूपमन्मथम् ॥ अहो रूपमहो कान्ति-रहो लावण्यमद्भुतम् ! ॥ ७७ ॥ ॥ एष विध्यति चेद्राधां, तत्कृतार्था भवाम्यहम् ॥ ध्यायन्तीति | तदेकाग्र-चित्तासीद्योगिनीव सा ॥ ७८ ॥ तदा च तत्समीपस्था, दासेरास्ते चतुर्दिशम् ॥ चक्रुः कोलाहलं प्रोच्चैस्तालिकास्फालनादिना ॥ ७९ ॥ तेऽपि द्वाविंशती राज-सुता उल्लण्ठभाषणैः ॥ असौ विध्यतु मा राधा-मित्य
UTR-1