SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (३) ।। २११ ।। धृतराट ॥ द्रच्छायामाश्रयत स्निग्ध-वधवखेदहारिणीम ॥ १५॥ विप्रस्त स्थगिकामध्या-सक्तनाऽऽकष्य वारिणा ॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ॥ १५२॥ धूर्तो दध्यौ क्षुधार्तत्वा-झोज्यं नाऽऽदावऽदान्मम॥ भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ! ॥ १५३ ॥ विप्रस्तु मार्गमित्राया-ऽप्यस्मै नो किश्चिदप्यदात् ॥ याचको हि खयं प्रायो-ऽन्यस्मै दातुं न शक्नुयात् ! ॥ १५४ ॥ विप्रेऽथ स्थगिकां वदवा, पुरतः प्रस्थिते सति ॥ | धूर्तेशोऽनुव्रजन् दध्या-चपराह्ने प्रदास्यति ! ॥ १५५॥ द्विजस्तथैव सायाहू-ऽप्यभुक्ताऽस्मै तु नो ददौ ॥ कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ॥१५६॥ पुरो यान्तौ च तौ रात्रौ, जातायां वटसन्निधौ ॥ मार्ग मुक्त्वा सुषु- पतुः, प्रभाते च प्रचेलतुः ॥ १५७ ।। जाते मध्यंदिने प्राग्व-द्विप्रो भुङ्क्ते स्म नत्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः पुरतोऽचलत् ! ॥ १५८ ॥ तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः ॥ तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ॥ १५९ ॥ तत्राप्यह्नि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोयं, मम चायं ब्रजामि तत् ॥ १६० ॥ मूलदेवोऽभ्यधाद्भट्ट !, त्वत्साहाय्यादियं मया ॥तीर्णा महाटवी तुम्ब-महिम्नेव महानदी ॥ १६१॥ कार्योत्पत्तौ ततो मूल-देवनानो ममान्तिके ॥ वेण्णातटे त्वमागच्छे- माऽऽख्याहि निजं च मे ॥ १६२ ॥ अहं निघृण शर्मेति, जनैर्दत्तापराभिधः॥ द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः॥ १६३ ॥ प्रति वेण्णातटं गच्छन् , मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थं तत्र चागमत् ॥ १६४ ॥ भ्रामं भ्रामं तत्र लेभे, कुल्मा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy