________________
।। २०८ ।।
णुका ॥ तदा ममोपयुज्यन्त इक्षवोऽमी असंस्कृताः ॥ १०८ ॥ अत्रैवार्थे मूलदेवो - ऽप्यादेष्टव्यो भुजिष्यया ॥ द्वयोरपि तयोर्मात- विशेषो ज्ञायते यथा ॥ १०९ ॥ इत्युक्त्वा मूलदेवान्ते, प्रैषीत्सा माधवीलताम् ॥ साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगौ ॥ ११० ॥ ततस्स पंचपानिक्षू - नादायापास्य तत्त्वचम् ॥ मुक्त्वा मूलाग्रपर्वाणि, यङ्गुला गण्डिका व्यधात् ॥ १११ ॥ कर्पूरवासितास्ताश्च चातुर्जातकसंस्कृताः ॥ शूलप्रोताः शरावान्तः, क्षिप्त्वा प्रैषीत्तदावृताः ॥ ११२ ॥ ताः प्रेक्ष्य मुदिता देव - दत्ताऽऽख्यज्जननीमिति ॥ अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ! ॥ ११३ ॥ तदहं तद्गुणैरेव तस्मिन् रक्तास्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ॥ ११४ ॥ करोम्युपायं तत्कञ्चिद्येनायं कामुकः स्वयम् || पुर्या निर्याति जाङ्गुल्याः, पाठेनेव गृहादहिः ॥ ११५ ॥ ध्यात्वेति शम्भली स्माहाऽचलं कैतवकोविदा ॥ ग्रामान्तरं गमिष्यामीत्यलीकं ब्रूहि मे सुताम् ॥ ११६ ॥ तमाह्वास्यति धूर्त्त सा, ज्ञात्वा त्वामन्यतो गतम् ॥ तदा भटैर्वृतः सज्जै-र्मत्सङ्केतात्त्वमापतेः ॥ ११७ ॥ धूर्त्ततामृगधूर्त्त च तं तथैवापमानयेः ॥ यथाभूयोऽत्र नागच्छे-त्सर्पधानीव मूषकः ॥ ११८ ॥ तत्खीकृत्याऽचलो देव - दत्तायै खं वितीर्यच ॥ ग्रामं यामीत्युदित्वा च, निरगात्तन्निकेतनात् ॥ ११९ ॥ निःशंका देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागातत्र सत्रोद्भटैर्भटैः ॥ १२० ॥ तं चाऽऽयान्तं वीक्ष्य देव - दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव - स्तल्पस्याधो न्यलीयत ॥ १२१ ॥ शय्याधःस्थं च तं ज्ञात्वा शम्भलीसंज्ञयाचलः ॥ तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ
UTR-1