SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन दिनी गमध्ययनम् (२) ।। १४१ ।। अलब्धे वा नानुतप्यत, संयतो मुनिः । यथाऽहो! ममाऽधन्यता ! यदहं किञ्चिन्नलभे इति पधात्तापं न कुर्मातेति | सूत्रार्थः ॥३०॥ किं विमृश्य नानुतप्यतेत्याहमूलम्-अजेवाहं न लब्भामि, अवि लाभो सुवे सिआ। जो एवं पडिसंचिक्खे, अलाभो तं न तजइ॥३१॥ ___ व्याख्या-अद्यैव अस्मिन्नेव दिने अहं न लभे, न प्राप्नोमि, अपिः' सम्भावने सम्भाव्यते एतलाभः प्राप्तिः श्वः आगामिनि दिने स्याद्भवेदुपलक्षणत्वादन्येचुरन्यतरेधुर्वा । य एवमुक्तनीत्या 'पडिसंचिक्खेत्ति' प्रतिसमीक्षते, अदीनमनाः | सन्नऽलाभमाश्रित्य आलोचयति, 'अलाभो' अलाभपरीषहस्तं न तर्जयेन्नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि बलदेवो वासुदेवो, दारुकः सत्यकोऽपि च ॥ अन्यदाश्वैरपहृताः, प्रापुरेका महाटवीम् ॥१॥प्रतियामं वारकेण, | जाग्रद्भिः स्थेयमात्मभिः ॥ इति निश्चित्य ते तत्र, वटस्याधोऽवसन्निशि ॥ २॥ सुप्तेष्वऽन्येष्वाऽऽद्ययामे, यामिकं तत्र | दारुकम् ॥ पिशाचरूपभृत्कोपः, समागत्यैवमऽब्रवीत् ॥ ३ ॥ असिष्ये शयितानेता-नहं क्षुत्क्षामकुक्षिकः ॥ त्वं रक्षकोऽसि यद्येषां, तन्नियुद्धं प्रदेहि मे ॥ ४ ॥ ओमित्युक्त्वा दारुकोऽपि, तेन साकमयुद्ध्यत ॥ अशक्नुवन् पिशाचं तं, जेतुमुच्चैश्चुकोप च ॥ ५ ॥चुकोप दारुकोऽत्यर्थ, पिशाचाय यथा यथा ॥ कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ॥६॥ वर्द्धमानेन तेनाभि-भूयमानो मुहुर्मुहुः ॥ दारुकः प्रथमं याम, कृच्छ्रेण महताऽत्यगात् ॥७॥ द्वितीये UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy