________________
।। १३० ।।
वलये भूरि-मूल्ये दत्वा भवत्पुरे ॥ ११० ॥ गृहीत्वा भोज्यमदिरे, अस्तीदानी बहिजन् ॥ ततो यत् स्याद्विधेयं त-द्धराधीश ! विधीयताम् ॥ १११॥ [युग्मम् ] तच्छ्रुत्वा स नृपो हन्तुं, बलं बलयुतो ययौ ॥ गोपुरं च व्यधाहत्त-कपाटं सजितागलम् ॥ ११२ ॥ युयुत्सया तमायान्तं, वीक्ष्य वेडां व्यधाद्बलः ॥ मुक्त्वाऽन्नपाने पार्श्वस्थ| मारोहच महागजम् ॥ ११३॥ उन्मूल्यालानमहितान् , हन्तुं प्रववृते हली ॥ रामश्वेडा मुकुन्दोऽपि, श्रुत्वाऽऽगाद्गोपुरे द्रुतम् ॥ ११४ ॥ भक्त्वा कपाटौ पुयाँ च, प्रविश्यादाय चार्गलम् ॥ हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत् ॥ ११५ ॥ आत्मवैरिन्नरे मूढ !, किमिदं भवता कृतम्॥ किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्गतं भवान् ! ॥ ११६॥ अथ मुक्तोऽसि राज्यं खं, मुंश्वेत्युक्त्वा बलाच्युतौ ॥ गत्वोद्यानमभुजातां, किञ्चित्तद्भोजनादिकम् ॥ ११७ ॥ ततो विधायाचमनं, चेलतुःप्रति दक्षिणाम् ॥ अवापतुश्च कौशाम्ब-वनं मुसलिकेशवी ॥ ११८ ॥ सुरापानात्सलवणा| ऽशनाद्रीष्मातपात् श्रमात् ॥ शोकात्पुण्यक्षयाचाऽभू-तत्र विष्णुस्तृषातुरः !॥ ११९ ॥ सोऽथाऽवादीदलं भ्रात-स्तृषा शुष्यति मे मुखम् ॥ गन्तुं शीततरुच्छाये-ऽप्यत्र शक्नोमि नो वने ॥१२०॥रामोऽप्यूचे प्रियभ्रात-र्जलार्थ याम्यहं द्रुतम् ॥ अत्राऽप्रमत्तो विश्राम्य-स्तिष्ठेस्त्वं तु तरोस्तले ॥१२१॥ क्षीमेण वपुराच्छाद्य, न्यस्य जानूपरि क्रमम् ॥ सुष्वाप द्रुतले विष्णु-स्ततो भूयोऽभ्यधाद्बलः ॥ १२२ ॥ यावदायाम्यहं वारि, समादाय त्वदन्तिकम् ।। तावत्तिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे ! ॥ १२३ ॥ उद्दिश्य वनदेवीश्च, स्माह रामो ममानुजः ॥ वल्लभो विश्वलोकानां, जीवा
UTR-1