________________
।। ९६॥
- कोशावेश्या निकेतने ॥ १२९॥ सुरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत ॥ सर्वेऽप्यऽङ्गीकृतस्थाना-न्यऽगमन्मुनय
स्ततः॥ १३० ॥ शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् ॥ शान्तिं प्रापुस्त्रयोऽप्येते. सिंहसरघटिकाः ॥ १३१ ॥ अथ श्रीस्थूलभद्रोऽपि, कोशासदनमासदत् ॥ कोशाऽपि प्रमदोत्सर्पि-रोमहर्षा तमभ्यगात् ॥ १३२ ॥ अयं परीषहोद्विग्रो, भग्नः संयमवीवधात् ॥ आगान्ननं तदद्याऽपि, दैवं जागर्ति मामकम् ॥ १३३ ॥ चिन्तयन्तीति साऽवोच-द्वाचा पीयूषकुल्यया ॥ खागतं भवतः खामिन् ! कामधिक्कारिरूप हे !॥ १३४ ॥ अद्य चिन्तामणि| लब्धः, फलितोऽद्य सुरद्रुमः ॥ अद्य कामगवी प्राप्ता, नाथ ! त्वयि समागते ॥ १३५ ॥ अद्यान्तरायापगमात् ,
पुण्यं प्रादुरभून्मम ॥ दिष्ट्या पीयूषवृष्ट्यामं, यत्प्राप्तं तव दर्शनम् ॥ १३६ ॥ अथ प्रसद्य सद्यो मां, समादिश करोमि *किम् ? ॥ सर्वमेतत्तवैवास्ति, वित्तं चित्तं वपुर्युहम् ॥ १३७ ॥ ततः श्रीस्थूलभद्रर्षि-भगवानेवमब्रवीत् ॥ चित्रशा
लामिमां देहि, स्थातुं मासचतुष्टयम् ॥ १३८ ॥ गृह्यतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ ॥ भगवान् स्थूलभद्रोऽपि, तस्थौ तत्र समाहितः ॥ १३९ ॥ कोशादत्तं षड्रसाढ्य-माहारमुपभुज्य च ॥ प्रणिधानं दधौ साधुः, | साधुधर्माब्जषट्पदः ॥ १४० ॥ रूपलावण्यकोशोऽथ, कोशा कौशलशेवधिः॥ शृङ्गारागारशृङ्गार-धरा गान्मुनिसनिधौ ॥ १४१॥ कटाक्षर्लक्षयन्ती तं, मुनिं स्मरशरोपमैः ॥ हावैर्मनोगतं भाव-मुद्वमंती मनोहरैः ॥ १४२ ॥ उत्तरीययथास्थान-स्थापनव्याजतो मुहुः ॥ व्यञ्जयन्ती स्तनौ स्तब्धी, खसौन्दर्यमदादिव ॥१४३ ॥ सल्लावण्यसुधा
UTR-1