________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
।। ५१॥
वैराग्यवानसौ ॥ प्रात्राजीत् हस्तिभूत्याव-पुत्रयुक साधुसन्निधौ ॥ ३॥ अन्यदा तावुजयिन्याः, प्रस्थितौ सह साधुभिः ॥ प्रति भोजकटं यान्ता-वरण्यानीमवापतुः॥४॥ हस्तिमित्रमुनेस्तत्र, मर्माभित्कण्टको महान् ॥ भन्मः पादतले तेन, पुरो गन्तुं स नाशकत् ॥ ५॥ ततः स तद्यथापूरैः, प्रापितः प्राणसंशयम् ॥ स्वसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ॥ ६॥ यूयं व्रजत कान्तार-पारञ्च प्राप्नुत द्रुतम् ॥ अहं त्विहैवानशनं, करिष्ये गन्तुमक्षमः | ॥७॥ तच्छ्रुत्वा मुनयः प्रोचु-हस्तिमित्र ! विषीद मा ॥ त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो न पुनर्वने ॥ ८॥ धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः ॥ तत्पुनर्लानसम्बन्धि, विना पुण्यं न लभ्यते ॥९॥ वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा ॥ तदाकर्ण्य जगौ हस्ति-मित्रर्षिः सत्वसेवधिः ॥ १०॥ सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् ॥ तन्मामुत्पाट्य मा यूयं, मुधा बाधामवाप्स्यथ ! ॥ ११ ॥ किश्चात्र श्वापदाकीणे, प्रचुरोपद्रवे वने ॥ सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् ॥ १२ ॥ इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् ॥ स सद्यः प्रेषयामास, सह सार्थेन साग्रहम् ॥ १३ ॥ स्थातुकाममपि स्नेहा-त्सहादायाथ तत्सुतम् ॥ प्रस्थिता मुनयो हस्तिमित्रस्त्वस्थाद्वहान्तरे ॥ १४ ॥ दूरं गत्वापि तत्पुत्रो, वञ्चयित्वा मुनीनगात् ॥ पितुः समीपं स्नेहो हि, निमंत्राकपणं मतम् ॥ १५ ॥ ततस्तातोऽवदत्पुत्र !, न शोभनमदः कृतम् ॥ मुनीन् विमुच्य मत्पार्थ-मविमृश्य यदागमः ॥१६॥ प्रासुकानोदकादीनां, दाता नास्तीह कोऽपि यत् ॥क्षुत्तपाविवशस्तस्मा-त्वमप्यत्र विपत्स्यसे ! ॥१७॥
UTR-1