________________
>z
टीकाकार प्रशस्तिः ॥
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१७॥
04-६<EZ0g
>
संविज्ञैकशिरोमणिर्बुधवरैः संसेव्यमानक्रमो, धीमान् पाठकसत्प्रतापविजयो जीयान मदीयो गुरुः
॥ १५ ॥ तेषां पाठकविदुषां परमगुरूणाञ्च सूरिविबुधानाम् । प्रभावतो व्यलेखि, टीकेयं सुमङ्गलानाम्नी यद्यपि तत्त्वगभीरे, जिनमते नास्ति मेऽतिनैपुण्यम् । न्यायं तथापि श्रुत्वा ‘शुभे यथाशक्तियतनीयम्'
॥ १७॥ एवञ्चाऽभ्यर्थनया परमविनेयस्य श्रीयशोविजयस्य । टीका गुरुप्रसादात् व्यरचि मया मन्दमतिकेन
॥ १८ ॥ संशोधितः श्रुतझैस्तथापि छद्मस्थजन्यदोषस्स्यात् । संशोध्यश्च सुधीभिरिति याचे धर्मविजयोऽहम् नवतत्त्वानां टीका रचयित्वा जिनमतानुसारेण । यदर्जितं च सुकृतं तेनाऽस्तु तत्त्ववित्सङ्घः
॥ २० ॥ नभोनिधिब्रह्मसुगुप्तिचन्द्र-प्रमेयसङ्ख्ये नृपविक्रमाब्दे । समापितेयञ्च सुमङ्गलाख्या, धर्माय धर्मेण तु षट्सहस्री ॥ २१ ॥ जम्बूद्वीपारविन्दे सुरगिरिकलिकां भ्राम्यतः पुष्पदन्तौ, यावद्यावच्च धत्ते लवणजलनिधिर्वेलवारिप्रवाहम् । यावन्नन्दीश्वरेषु जिनवरप्रतिमाः शाश्वतेषु गृहेषु,विद्यन्ते तावदेषा विजयतु सुतरां मङ्गलाख्या सुटीका ॥ २२ ॥ इति संविज्ञशाखीय-विद्ववृन्दावतंस-कुमतध्वान्ततरणि-मुनिचक्रचूडामणि-तपागच्छगगनदिनमणि श्रीमन्मुक्तिविजय [ अपरनाम मूलचन्दजी ] गणिपादपाचश्चरीक-सर्वज्ञशासनाङ्गणगभस्तिमालिनिरवद्यचारित्रशालि-तपागच्छाचार्य पुरन्दर-श्रीमद्विजयकमलसूरीश्वरपट्टोदयाद्रिसहस्रांशु-अमेयप्रभावप्रवचनप्रवीणचेतस्काऽनवद्यसंयमसेवाहेवाकव्याख्याप्रज्ञाऽऽचार्यवर्य श्रीमद्विजयमोहनसूरीश्वरविनेयावतंस-गीतार्थवर-पाठकप्रवरोपाध्यायपदालत श्रीमत्प्रतापविजयगणिशिष्याणुप्रवर्तक-श्रीधर्मविजयविरचितायां श्रीनवतत्त्वप्रकरण-सुमङ्गलाटीकायां
प्रकीर्णकाधिकारः समाप्तः । तस्मिश्च समाप्ते समाप्तोऽयं ग्रन्थः ॥ श्रीरस्तु ॥
-
<y-卐>卐
॥१७०॥
-जर
>