SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ M पश्चादुपाश्रयमागत्य स्वस्वामिन्यै ' मृताऽपत्यं सुषुवे ' इति मृषा व्यतिकरं बभाषे प्रत्यहञ्च यत्र पुत्रस्तत्र गच्छा 'अवकर्णक' इति चाण्डालेन संज्ञितं तं स्वबालं रमयति । यौवने च प्राप्ते पुत्रे वयस्यैः सह क्रीडापरो यदा जयति तदा दण्डं याचते, 'कं दण्डं प्रयच्छामः, इति वयस्यैः प्रश्निते “ मम देहे कण्डूः समागच्छति ततो भवद्भिः स्वहस्तैर्मम देहः कण्डूयितव्यः " इति कथिते वयस्यैस्तस्य — करकंडु ' इति नाम चक्रे । स चैकदा कस्यचिद्दण्डस्य प्रभावाद्राज्यं लब्धवानन्यान् पार्थिवान् स्वायत्तीकुर्वाणः स्वपितरं दधिवाहनं स्वाधीनं कर्तुं चम्पां परिवेश्याऽस्थात्, महत्समराङ्गणञ्च बभ्रुव, एतद् ज्ञात्वा पद्मावती तत्राऽऽगत्य पितरं पुत्रञ्च निखिलं वृत्तान्तमचीकथत्, दधिवाहनेन राज्ञा पुत्रं राज्ये निवेश्य प्रव्रज्या परिगृहीता । करकंडुच कदाचिदेकं सौन्दर्यातिशयितं पुष्टं वृषभवत्सं गोपाटके दृष्ट्वा 'अयं वत्सः स्वमातुर्निखिलेन पयसा अन्यासामपि गवां पा पुष्टिं नेतव्यः' इति गोपमादिदेश, पार्थिवादेशानुसारं प्रत्यहञ्च सञ्जाते स वत्सः पुष्टो बलीवर्दो जातः, राजा च तं दृष्ट्वा 5 हर्षायते, कतिपयसंवत्सरानन्तरं जराजर्जरं तमेव बलीवदं दृष्ट्वा ' किं गोपेन मदाज्ञानुसारं न रक्ष्यतेऽयम् ' इति पृष्टेन गोपेन यथावद्व्यतिकरे उक्ते सति करकण्डुस्स्वचित्ते चिन्तयामास यदद्यपर्यन्तं पयः प्रमुखस्वादुपेयैः पोषितायाः कायाया इयमवस्था! विरसावसाना खलु निखिलाः पौद्गलिकभाचाः ' इत्यादि मावयन् लोचं कृत्त्वा देवताप्रदत्तमुनिवेषग्रहणपूर्विका दीक्षां गृहीत्वा T प्रत्येकबुद्धश्च सञ्जातः क्रमेण पृथ्वीतले विहरन्नवाप्तकेवलालोकः स्वायुषः क्षये मोक्षं ययौ । एवं द्विमुख - नमिरजर्षिप्रमुखाणां प्रत्येकबुद्धानां चरितान्युत्तराध्ययनतो विभावनीयानीति । A तथा किञ्चिदपि बाह्यं निमित्तादिकमृते यो बोधिलाभपूर्वकमवा सकेवलो मोक्षं प्रयाति स कपिल इव स्वयम्बुद्धसिद्धाः । S A V A 5zo
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy