SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ 10 मोक्षतचे उपसंहारः॥ श्रीनवतत्वसुमङ्गलाटीकायां॥१५९॥ izs卐>25-卐5->ye सिद्धस्याऽपि तथेष्यते ॥ ४ ॥ ऊर्ध्वगौरवधर्माणो जीवा इति जिनोत्तमैः । अधोगौरवधर्माणः पुद्गला इति नोदितम् ॥ ५॥ यथास्तिर्यगूज़ च लोष्ठवाय्वग्निवीतयः । स्वभावतः प्रवर्त्तन्ते, तथोवं गतिरात्मनाम् ॥ ६॥' इत्यादि । एवं ज्ञानदर्शनचरणस्वभाव ऊर्ध्वगौरवधर्माऽप्यं जीवोऽष्टविधकर्ममृत्तिकोपरागरक्तो मृत्तिकालिप्ताऽलाबु इव संसारमहार्णवे निमग्नो रागद्वेषतरंगसंततिप्रयुक्तश्चाधस्तिर्यगूर्ध्व गत्या गत्यन्तरं परिभ्रमन् तथाभव्यवपरिपाकवशंगतः सम्यग्दर्शनज्ञानचारित्रविशुद्धवारिवेगासेकापगतकाष्टकमृत्तिकालेपो विगतमृदावरणालाबुवर्ध्वगौरखधर्मात् संसारमहोदधेःपरस्ताद्वर्त्तमानं लोकान्तं व्रजन् साद्यनन्तकालं यावत् शिववधूत्सङ्गसेवाहेवाको भवतीति मोक्षतत्वम् । एतदेवोपसंहारेण भावितं 'इय मुरकतत्तमेयं एतन्मोक्षतत्त्वमिति । गते च मोक्षतत्वे जीवाजीवपुन्यपापाश्रवसंवरनिर्जराबन्धमोक्षाख्यानि नवान्यपि तत्त्वानि यथामति प्रतिपादितानीत्येतत्प्रदर्शयितुमाह 'नवतत्ता लेसओ भणिया' इति, प्राग्वर्णितस्वरूपाणि नवतत्त्वानि 'प्राकृतवशाल्लिङ्गविपरिणामः' लेशतः संक्षेपतो भणितानि आगमानुसारेण प्रतिपादितानीत्यर्थः । इति मोक्षतत्वम् । उक्त्वा मोक्षं तत्त्वं यदलाभि शुभं मयाल्पमतिकेन । तेन व्रजन्तु मोक्षं भव्याः प्रक्षीणकर्मांशाः॥१॥ इत्याराध्यपादाऽऽचार्यवर्यश्रीमद्विजयमोहनसूरीश्वरविनेयावतंसोपाध्यायपदालङ्कृतश्रीमत्प्रतापविजयगणिवरचरणाज चश्चरीकप्रवर्तकमुनिधीधर्मविजयविरचितायां श्रीनवतत्त्वसुमङ्गलाटीकायां नवम मोक्षतत्त्वं समाप्तम् ।। gyzs09554 | ॥१५९॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy