SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Zyg>55- पुद्गलजालश्लेषणमादानं, स्नेहाभ्यक्तवपुषो रजोलगनवदिति । तथा चोक्तम् :-'सकपायवाजीवः कर्मणो योग्यान पुद्गलानादत्ते' (तचा०, अ०८, सू० २)। नन्वग्रे वक्ष्यमाणप्रकारेण कर्मप्रदेशाऽऽदानं मनोवाकायाऽन्यतमयोगसाध्यं, तत् कथं 'सकषायत्त्वाजीवः कर्मणो योग्यान् पुद्गलानादत्ते' इत्युक्तम् ? सत्यम् । बन्धो द्विविधः, साम्परायिकबन्धः, ईर्यापथिकबन्धश्च, यद्यपि कर्मप्रदेशादानं 'जोगा पयडिपएसं ' इति वचनाद् योगसाध्यं तथापि सूक्ष्मसंपरायगुणस्थानं यावत् कषायसहचरिता योगाः कर्मप्रदेशग्रहणं विदधति, सकपाययोगेनात्ता कर्मप्रदेशा एव आत्मप्रदेशैस्सह संश्लेषमुपयान्ति, न तु केवलयोगेनोपात्ताः, यत उपशान्तमोहक्षीणमोहसयोगिकेवलिगुणेषु केवलं योगप्रत्ययतो यो बन्धो द्विसामयिकः सैव ईर्यापथिकः, तस्य 'बन्ध' इति संज्ञायां सत्यामपि बन्धशब्दस्य न चरितार्थत्वम् , आत्मप्रदेशैस्सह क्षीरनीरवदभेदसम्बन्धाऽभावात् , सम्मृष्टभित्तिप्रक्षिप्तवालुकासमुदायवदिति । अतः 'सकषायवाजीवः कर्मणो योग्यान् पुद्गलानादत्ते' इति सत्यम् ! यदाह वाचकमुख्यः;- 'स्नेहाऽभ्यक्तशरीरस्य, रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषक्लिन्नस्य कर्मबन्धो भवत्येव' ॥१॥ ननु 'कर्मणो योग्यानि' इतिपदेन अन्येऽपि कर्मणोऽयोग्याः पुद्गलाः सन्तीति ज्ञायते, तत्र योग्याऽयोग्यस्वरूपं विभावयितुं प्रसङ्गसङ्गत्या किश्चिद् वर्गणास्वरूपमुल्लिख्यते;-इह समस्तलोकाकाशप्रदेशेषु ये केचन एकाकिनः परमाणवो विद्यन्ते, तत्समुदायसजातीयत्त्वादेका वर्गणा, वर्गणा नाम सजातीयानां समुदायः, एवं द्विप्रादेशिकानामनन्तानामपि स्कन्धानां सजातीयवाद्वितीया वर्गणा, त्रिप्रादेशिकानामनन्तानामपि स्कन्धानां सजातीयत्त्वात्तृतीया वर्गणा, एवमेकैकपरमाणुवृद्ध्या संख्येयप्रादेशिकानामनन्तानामपि स्कन्धानां सजातीयसमुदायरूपाः संख्याता वर्गणाः, असंख्यातप्रादेशिकस्कन्धानामेकैकपरमाणु 19555095-फ़र!
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy