________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥१२३॥
Z33>卐5-
बन्धतत्वे गुणेषुबन्धप्रत्ययाः॥
अपूर्वकरणे सैव चतुर्विंशतिक्रियद्विकरहिता द्वाविंशतिबन्धहेतवः । अनिवृत्तिबादरसंपरायगुणस्थानके पूर्वोक्ता द्वाविंशतिबन्धहेतवो हास्यरत्यरतिशोकभयजुगुप्सालक्षणहास्यषट्करहिताः षोडशबन्धप्रत्यया भवन्ति । त एव पोडशबन्धप्रत्ययाः स्त्रीपुंनपुंसकलक्षणवेदत्रिकसवलनक्रोधमानमायारूपसञ्जवलनत्रिकाभ्यां वर्जिता दश बन्धहेतवः सूक्ष्मसम्परायाख्ये दशमे गुणस्थानके वर्तन्ते । क्षीणमोह उपशान्तमोहे च त एव दश लोभं विना नव बन्धप्रत्ययाः । मनोयोगचतुष्कवाग्योगचतुष्कौदारिककाययोगलक्षणा ये नव बन्धहेतवः क्षीणमोह उपशान्तमोहे च भवन्ति तेभ्यो मध्यममनोयोगद्विकमध्यमवाग्योगद्विकलक्षणाश्चत्वारो हेतव अपसारयितव्याः, कार्मणौदारिकमिश्रौ च प्रक्षिप्तब्यौ, अतः सयोगिकेवलिनि सप्त प्रत्ययाः। तत्रौदारिकं सयोग्यवस्थायामौदारिकमिश्रकार्मणकाययोगौ केवलिसमुद्धातावस्थायाम् , “ मिश्रौदारिकयोक्ता सप्तमषष्ठद्विती येषु । कार्मणशरीरयोगी चतुर्थके पंचमे तृतीये च"॥१॥ इति वचनात् । प्रथमान्तिममनोयोगी भगवतोऽनुत्तरसुरादिभिमनसा पृष्टस्य मनसैव देशनात्, प्रथमान्तिमवाग्योगौ तु देशनादिप्रसङ्गे, अयोगिकेवलिनि न कश्चिद्वन्धहेतुर्योगस्याऽपि व्यवच्छिन्नत्वादिति ॥ ___ एवमुपपादिते विस्तरेण बन्धहेतौ इयमाशङ्का स्याद्! यत्, कथममूर्तस्याऽऽत्मनो हस्ताद्यसम्भवे सति आदानशक्तिविरहान कर्मग्रहणमिति ? उच्यते-प्रक्रियाऽनभिज्ञस्य तावदियमेवाऽयोग्याऽऽशङ्का, यतः कथममूर्तत्त्वमभ्युपेतमात्मनः कर्मजीवसम्बन्धस्यानादित्वादेकत्त्वपरिणामे सति क्षीरोदकवन्मूर्त आत्मा एव कर्मग्रहणे व्याप्रियते नत्त्वमूर्तः, न च बाह्यहस्तादिकरणव्यापाराऽऽदेयं घटादिवत् कर्म पौद्गलमपि सत् , किन्त्वध्यवसायविशेषाद् रागद्वेषमोहपरिणामाऽभ्यञ्जनलक्षणादात्मनः कर्मयोग्य
5533<szs05-
॥१२३॥