________________
z!
पद्रव्य
श्रीनवतत्त्व सुमङ्गलाटीकायां
स्वरूपम्॥
॥४७॥
| गुणतो गतिसाहाय्यकः, संस्थानतो वज्रसंस्थानीयः॥१॥ अधाऽस्तिकायो द्रव्यत एकः, क्षेत्रतो लोकाऽऽकाशप्रमाणः, कालतोऽनाद्यनन्तः, भावतो वर्णगन्धरसस्पर्शवियुतः, गुणतस्स्थितिसाहाय्यकः, संस्थानतो वज्रसंस्थानीयः ॥२॥ आकाशास्तिकायो द्रव्यत एकः, क्षेत्रतो लोकाऽलोकमानः, कालतोऽनाद्यनन्तः, भावतो वर्णगन्धरसस्पर्शवर्जितः, गुणतोऽवगाहदायकः, संस्थानतो गोलाकारकः ॥३॥ जीवास्तिकायो द्रव्यतोऽनन्तस्वरूपः, क्षेत्रत एकं जीवमाश्रित्य जघन्यतयाऽङ्गुला:संख्येयभागः, उत्कृष्टस्त्वनेकान् जीवान् एकं वा जीवमाश्रित्य लोकाऽऽकाशप्रमाणः, कालतोऽनाद्यनन्तः, भावतो वर्णगन्धरसस्पर्शरहितः, गुणतो ज्ञानदर्शनादिगुणोपेतः, आकृत्या देहाकारकः, समुद्घाताऽपेक्षया लोकाऽऽकारको वा ॥४॥ पुद्गलाऽस्तिकायो द्रव्यतोऽनन्तसंख्याऽऽत्मकः, क्षेत्रतो लोकाऽऽकाशपरिमितो निखिलपुद्गलद्रव्यजाताऽपेक्षया, परमाण्वपेक्षया सूक्ष्मपरिणामपरिणताऽनन्तप्रदेशिस्कंधाऽपेक्षया वा एकाऽऽकाशप्रदेशावगाहः, कालतोऽनाद्यनन्तः, भावतो वर्णगन्धरसस्पर्शायुपेतः, गुणतः पूरणगलनस्वभावः, संस्थानत्त्वेन-दीर्घ-चतुरस्र-व्यस्र-वर्तुल-परिमण्डलादिसंस्थानीयः॥५॥ कालो द्रव्यत एका क्षेत्रतः साधद्वयद्वीपप्रमाणः, कालतोऽनाद्यनन्तः, भावतो वर्णादिवियुक्तः, आकृत्या अवक्तव्यः॥६॥ इत्येवं व्याख्याता अजीवतत्त्वस्य चतुदेशभेदाः। प्रकाराऽन्तरेणाऽजीवस्य मूर्ताऽमूर्तविभागेन, द्रव्य-क्षेत्र-काल-भाव-गुणभेदैर्वर्णगन्धरसस्पर्शसंस्थानभेदेश्च षष्ट्यधिकपञ्चशतप्रभेदा भवन्ति, तेषां वर्णनं ग्रन्थविस्तरभयादत्र न लिख्यते, ग्रन्थान्तरेषु सुप्रतीतं, जिज्ञासुभिश्च तत्रतो विलोकनीयम् ॥१५॥
व्याख्यायाञ्जीवतत्त्वं, भेदप्रभेदैर्यन्मयोपात्तम् । तेनाऽस्तुश्रमणसङ्को, जीवाजीवत्वविज्ञानयुतः॥१॥ इत्याराध्यपादाचार्यवर्यश्रीमद्विजयमोहनसूरीश्वरविनेयावतंसोपाध्यायप्रवरश्रीप्रतापविजयजीगणिचरणाब्जचञ्चरीक
प्रवर्तकश्रीधर्मविजयविरचितायां श्रीनवतत्त्वप्रकरणसुमङ्गलाटीकायां द्वितीयमजीवतत्त्वं समाप्तम् ॥
insssz5095
|॥४७॥