________________
सुणित्ता उत्तरपुरस्थिमं दिसीभागं अवक्कमइ अवक्कमित्ता वेउव्विअसमुग्घाएणं समोहणइ वेउव्विअसमुग्घाएणं समोहणित्ता संखिज्जाइं जोअणाइंदंडं निसिरइ,तं जहा-रयणाणं वयराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगब्भाणं पुलयाणं सोगंधिआणं जोईरसाणं अंजणाणं अंजणपुलयाणं जायरूवाणं सुभगाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले परिसाडिअ अहासुहुमे पुग्गले परिआएइ ॥ २७॥ व्याख्या-तएणं से हरिणेगमेसीत्यादितः परिआएइत्ति यावत्, तत्र आज्ञाया-आदेशस्य वचनं विनयेन प्रतिशृणोति-कर्तुमभ्युपगच्छति उत्तरपुरत्थिमं ति ईशानकोणकम् अवक्कमइत्ति अपक्रामति-व्रजति वेउब्वियसमुग्घाएणं ति उत्तरवैक्रियरूपकरणाय प्रयत्नविशेषेण समोहणइ त्ति समुद्धति-आत्मप्रदेशान् विक्षिपति समोहण्णइ त्ति पाठे समुद्धन्यते समुद्घातवान् भवतीत्यर्थः, तत्खरूपमेवाह-संखिजाइमित्यादिना दंडं ति दण्ड इव दण्ड-ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेशकर्मापुद्गलराशिस्तं निसृजति-निष्काशयतीत्यर्थः, तत्कुर्वाणस्तु विविधविशिष्टपुद्गलानादत्त इति दर्शयन्नाह तं रयणाणमित्यादि रत्नानां-कर्केतनप्रभृतीनां यद्यपि रत्नादिपुद्गला औदारिका एव भवन्ति, वैक्रियसमुद्घाते च वैक्रिया एव ग्राह्याः, तथापि तेषां रत्नादिपुद्गलानामिव सारताख्यापनाय रत्नानामिवेति व्याख्ये
११क०