________________
कल्पसूत्र०
॥३८॥
धनञ्जय(ख)राज्ञो धारिण्या देव्याः कुक्षौ चतुरशीतिलक्षपूर्वायुश्चक्रवर्ती, सच पोहिलाचार्यसमीपे प्रव्रज्य कोटिवर्षप्रत्र-3/ किरणाव० ज्यापर्यायः २३, चतुर्विंशतितमे भवे महाशुक्रकल्पे सर्वार्थनाम्नि विमाने सप्तदशसागरोपमस्थितिकोऽमरः २४, तत-18 श्युतः पञ्चविंशतितमे भवे इहैव भरतक्षेत्रे छत्रिकायां नगर्यो जितशत्रुनृपतेर्भद्रादेव्याः कुक्षौ पञ्चविंशतिलक्षवर्षायुनन्दनो नाम पुत्रः, स च पोट्टिलाचार्यपार्थे राज्यं सन्त्यज्य गृहीततपस्योऽनवरतं मासोपवासैविंशत्या स्थानस्तीर्थकरनामगोत्रं निकाचयित्वा प्रव्रज्यापर्यायं चैकं वर्षलक्षं परिपाल्य मासिकया संलेखनयालोचितप्रतिक्रान्तो मृत्वा २५ षड्विंशतितमे भवे प्राणतकल्पे पुष्पोत्तरावतंसकविमाने विंशतिसागरोपमस्थितिको देवः २६, ततश्च्युतः सप्तविंशतितमे भवे ब्राह्मणकुण्डग्रामे नगरे ऋषभदत्तस्य ब्राह्मणस्य देवानन्दायाः पल्याः कुक्षौ समुत्पन्नः २७ । इत्येवं सप्तविंशतिभवापेक्षया तृतीये मरीचिसम्बन्धिनि भवे खदेशनाप्रतिबुद्धः कपिलः साधुपार्थे प्रव्रजनाय द्विरुक्तोऽपि किं भवत्समीपे सर्वथा धर्मो नास्त्येवेति प्रतिवचः पुरस्सरं साधुपार्श्वमगच्छन् पापात्मा मदुचितोऽयं भवतु मनिश्रित इति विचिन्त्य कपिला इत्थंपि इहयंपि त्ति प्रागुत्तरीयोत्सूत्रमिश्रितवचसा कोटाकोटिसागरसंसारसत्ताको मृत्वा ब्रह्मलोके सुरः, ततश्च्युतः परिव्राजक, इत्यादिना क्रमेण यावत् किञ्चित्सावशेषनीचैर्गोत्रसत्ताको दशमदेवलोकाद्देवानन्दायाः कुक्षाववातरदिति । जोणीजम्मणनिक्खमणेणं ति योन्या जन्मार्थ निष्क्रमणेन निक्खमिंसु वेत्यादि, निरक्रामन् निकामन्ति निष्क्रमिष्यन्ति ॥ १९ ॥
MARCRABAR