________________
कल्पसूत्र ० ॥ ३ ॥
“व्यालाश्चेद् गरुडं प्रसर्पिगरलज्वाला जयेयुर्जवाद्, गृह्णीयुर्द्विरदाश्च यद्यतिहठात् कण्ठेन कण्ठीरवम् । सूरं चेत् तिमिरोत्कराः स्थगयितुं व्यापारयेयुर्बलं, बध्नीयुर्बत दुर्नयाः प्रसृमराः स्याद्वादवियां तदा ॥ १ ॥
( श्रीस्याद्वादकल्पलतायां त एव वाचकेन्द्राः ) "अनेकान्तत एवातः, सम्यग्मान व्यवस्थितेः । स्याद्वादिनो नियोगेन युज्यते निश्चयः परम् ॥ १ ॥” ( श्रीशास्त्रवार्त्तासमुच्चये श्रीमद्धरिभद्रसूरयः )
अलमधिकेनैतावतैव भविष्यति निश्चयो, यदुत नास्ति गतिरप्यविकला भगवन्तं स्याद्वादसिद्धान्तं विना, परं स पाश्चात्यपण्डितो नैव संतुष्ट एतावता, तेन तु स्वकीयं पण्डितप्रकाण्डत्वं प्रतिभाप्रकर्षत्वं च प्रदर्शनार्थ स्वीकृत्य भगवतो महावीरस्य सर्वज्ञत्वं समुल्लिखितम् —
" तेमनुं ( भगवान् महावीरनुं ) तत्त्वज्ञान अथवा परमार्थ ( अध्यात्म) स्वरूपविषयक ज्ञान न्यायशास्त्रनी पूर्वापर संगतिनी दृष्टिए उत्कृष्ट जणातुं नथी. धार्मिक विषयोना संबन्धमां तेमनी ( भगवान् महावीर देवनी ) बुद्धिशक्ति हती खरी; परंतु बुध्धमां जेवी प्रतिभाशक्ति निःसंशयरीते मानी शकाय छे, तेवी तो तेमनामां न हती."
एतदपि, नैतन्निरासाय विधेयं किमप्यन्यत्, यतः श्रूयन्त एतद्विषयेऽप्यनेकेऽप्रतीमा विद्वत्प्रवादाः । निदर्शनभूताः पुनरिमे— “कुहेतुतक परतप्रपञ्च - सद्भावशुद्धाप्रतिवादवादम् । प्रणम्य सच्छासनवर्द्धमानं, स्तोष्ये यतीन्द्रं जिनवर्द्धमानम् ॥ १ ॥
न काव्यशक्तेर्न परस्परेर्ष्यया, न वीरकीर्तिप्रतिबोधनेच्छया । न केवलं श्राद्धतयैव नूयसे, गुणज्ञपूज्योऽसि यतोऽयमादरः ॥ २ ॥ परस्पराक्षेपविलुप्तचेतसः, स्ववादपूर्वापरमूढनिश्चयान् । समीक्ष्य तत्त्वोत्पथिकान् कुवादिनः, कथं पुमान् स्याच्छिथि लाद्रस्त्वयि ॥३॥
किरणाच०
प्रस्ता०
॥ ३ ॥