SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र० ॥२७॥ व्याख्या-'इमं च णमित्यादेरेवं वयासीति' पर्यन्तम् , तत्र 'केवलकप्पं ति' केवलः-परिपूर्णः स चासौ कल्पश्च- किरणाव. कार्यकरणसमर्थो ऽथवा परिपूर्णतासाधात् केवलकल्पः केवलज्ञानसशः 'आभोएमाणे त्ति' आभोगयन्-पश्यन्, नन्दितः-समृद्धितां प्राप्तः, परमानन्दितो-अतीव समृद्धिभावं गतः, धाराहयेत्यादि धाराहतं यत्कदम्बस्य-नीपस्य सुरभिकुसुमं तदिव 'चंचुमालइअ त्ति' पुलकितः अत एव 'ऊसविअ त्ति' उच्छ्रितरोमकूपश्च यः स तथा विकसितानि-भूतलावतरणोद्भूतप्रभूतप्रमोदादुत्फुल्लानि वरकमलवदाननं च नयने च यस्य स तथा प्रचलितानि-भगवद्गर्भोत्पत्तिदर्शनजनितसम्भ्रमातिरेकात् कम्पितानि 'पलंबिअ ति पाठे तु प्रकर्षेण लम्बितानि वराणि-प्रधानानि कटकानि च-कङ्कणानि, त्रुटिताच-बाहुरक्षकाः, केयूराणि च-अङ्गदानि बाहुमूलमूषणानि, मुकुट च-किरीट, कुण्डले |च-कर्णाभरणे यस्य स तथा हारविराजद्वक्षाः तदनु पदयस्व कर्मधारयः, पालम्बो-गुम्बनके मुक्तामय प्रलम्बमानं-लम्बमानं घोलच-दोलायमानं यद्भूषण-आभरणं तद्धारयति यः स तथा संसम्भ्रम-सादरं स्वरित-सौत्सुक्यं ४ चपलं-वेमवच्च यथा स्यात्तथा प्रत्यबरोहति-अवतरतीत्यर्थः, वैड्र्येण मध्यवर्त्तिना बरिष्ठे-प्रधाने रिठाञ्जने-रत्नविशेषौ ययोस्ते तथा निपुणेन-कुशलेन शिल्पिना 'उवि त्ति परिकर्मिते अत एव 'मिसिमिसिंत त्ति' चिकिचिकायमाने मणिभिः-चन्द्रकान्तादिभिः रत्नश्च-कर्केतनादिभिः मण्डिते येते तथा ततः पदत्रयस्य कर्मधारयः, एवंविधे ॥२७॥ पादुकेऽवमुञ्चति, "एगसाडि ति' एकखण्डशाटकमयं उत्तरासह-वैकलं अञ्जलिना-अअलिकरणतो मुकुलितोमुकुलाकृती कृतावग्रहस्ती येन स तथा 'अंचेइ ति आकुश्चयति-उत्पाटयति 'साहट्ट ति सहल-निवेश्य निकृत्वः
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy