________________
एवं प्रज्ञापयति-अनुज्ञापितस्य फलं ज्ञापयति, एवं प्ररूपयति-दर्पणतल इव प्रतिरूपं श्रोतॄणां हृदये सङ्क्रमयति, | इदानीमाख्येयस्व नामधेयमाह-पज्जोसवणाकप्पो नाम अज्झयणं ति पर्युषणा-वर्षावेक क्षेत्रनिवासस्तस्याः कल्पः| सामाचारी साधुसाध्वीराश्रित्य विधिप्रतिषेधरूपाणि कर्त्तव्यानि तदभिधेययोगात् अध्ययनमपि पर्युषणाकल्पस्तथा च पर्युषणा करूपमा माध्ययनं भूयो भूय उपदर्शयति विस्मरणशीलश्रोत्रनुग्रहार्थमनेकशः प्रदर्शयति, द्विर्वचनं निकाचनार्थमिति सम्बन्धः, सअटुं ति सार्थ-प्रयोजनयुक्तं न पुनरन्तर्गडुकण्टक्क शाखामईनवदभिधेयशून्यं तथाविधवर्णानु पूर्वीमात्रबद्धं, सहेउयं ति अननुपालयतोऽमी दोषा इति दोषदर्शनं हेतुः अथवा हेतुः- निमित्तं वथा 'सबीसहराप मासे वश्कते पज्जोसनेअव्यं' इत्युक्ते किं निमित्तं 'पाएणं अगारीणं अगाराई' इत्यादिको हेतुस्तेन सहितं सहेतुकं, तथा सकारणं कारणं- अपवादः यथा 'आरेणापि कप्पर पज्जोसवित्तए' इति तेन सहितं सकारणं, ससूत्रं साथै सोभवमिति प्रतीतं, अथ सार्थत्वं कथमध्ययनस्य न सत्र टीकादाविवार्थः पृथक व्याख्यातोऽस्ति ? सत्यं सूत्रखार्थनाउन्तरीयकत्वाददोषः, तथा सव्याकरणं - पृष्टापृष्टार्थकथनं व्याकरणं तत्सहितमिति, इति भद्रबाहुखामी खशिष्यान् जूते, नेदं स्वमनीषिकया ब्रवीमि किन्तु तीर्थकरगणधरोपदेशेनेति अनेन च गुरुपारतन्यमभिहितमिति ॥ ६४ ॥
इति श्रीमतपागणययनाङ्गणनभोमणि श्री ६ हीरविजयसूरीश्वर शिष्योपाध्याय श्रीधर्म्मसागरगणिविरचितायां श्री - कल्पकिरणावल्यां सामाचारीव्याख्यानपद्धतिः समाप्ता ॥ तत्समाप्तौ च समाप्ता श्रीपर्युषणाकल्पे तृतीयवाच्यव्याख्यादपद्धतिः ॥