________________
व्याख्या – वासावासमित्यादितः से निज्जूहिअबे सिअ त्ति पर्यन्तम्, तत्र अहिगरणं वइत्तर ति अधिकरणं- राटि| स्तत्करं वचनमप्यधिकरणं वइत्तए त्ति वदितुं अकप्पेणं ति हे आर्य ! अकल्पेन - अनाचारेण वदसीति वक्तभ्यः, यतः पर्युषणादिनतोऽर्वाक् पर्युषणादिन एव वा यदधिकरणमुत्पन्नं तत्पर्युषणायां क्षामितं यच त्वं पर्युषणातः परमप्यधिकरणं वदसि सोऽयमकल्प्य इति भावः, निज्जूहियवे सिआ इति निहितव्यः -- ताम्बूलिकपत्रदृष्टान्तेन सङ्घाद्वहिः कर्त्तव्यः, यथा ताम्बूलिकेन विनष्टं पत्रमन्यानि पत्राणि विनाशयद्बहिरेव क्रियते तद्वदयमप्यनन्तानुबन्धिक्रोधाद्याविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावः, तथा अन्योऽपि द्विजदृष्टान्तो यथा - खटेवास्तच्यो रुद्रनामा द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लात्वा क्षेत्रं गतो, हलं वाहयतस्तस्य गलिर्बलीवई उपविष्टस्तोत्रेण ताड्यमानोऽपि यावन्नोत्तिष्ठति तदा क्रुधाकुलेन केदारत्रयमृत्खण्डैरेवाहन्यमानो निश्वासरोधान्मृतः, पश्चात्स पश्चात्तापं विदधानो महास्थाने गत्वा खवृत्तान्तं कथयन्नुपशान्तोऽनुपशान्तो वेति महास्थानस्यैः पुरुषैः पृष्टे नाद्यापि ममोपशान्तिरित्यु|क्तेऽयोग्योऽयमनुपशान्तकषायत्वादपांक्तेयो द्विजैश्चक्रे, एवं वार्षिक पर्वण्यपि 'साहम्मिए अहिगरणं करेमाणे ति वचनात्साधम्मिकैः सममधिकरणं कुर्वाणः सङ्घवाह्यो भवत्यत एव सापराधोऽपि चण्डप्रद्योतः साधम्मिक इति कृत्वा उदयनराज्ञा मुक्तः । तद्व्यतिकरस्त्वेवम्-सिन्धुदेशे महसेनप्रभृतिदशमुकुटबद्धनृपसेव्यमानो वीतभवपुराधिपतिरुदयनराजा, स हि विद्युन्माल्यर्पितदेवाधिदेवप्रतिमाचक श्राद्धार्पितगुटिकाजाताऽद्भुतरूपाया देवदत्ताया दास्या अपहर्त्तारं चतुर्दशमुकुटबद्धराजसेव्यं मालवाधिपं चण्डप्रद्योतं सङ्ग्रामे बद्धा पश्चादागच्छन् दशपुरस्थाने वार्षिकप