________________
व्याख्या – समणे भगवमित्यादितः संखित्तवायणाए त्ति पर्यन्तम्, तत्र श्रीवीरपट्टे श्रीसुधर्म्मखामी पञ्चमो गणधरः, तत्खरूपं च सङ्क्षेपेणेदम्-कुलागसन्निवेशे धम्मिल्लविप्रस्य भार्या महिला तस्याः कुक्षौ समुत्पन्नश्चतुर्दशविद्या - निधानं, पञ्चाशद्वर्षान्ते दीक्षा, त्रिंशद्वर्षाणि यावत् श्रीवीरचरणकमलपरिचर्या, श्रीवीरमोक्षाद् द्वादशवर्षाणि छाप्रस्थ्यं, एवं द्विनवतिवर्षीन्ते केवलोत्पत्तिः, ततोऽष्टौ वर्षाणि केवलिपर्यायं परिपाल्य सर्वशतवर्षायुर्जम्बूस्वामिनं खपदे संस्थाप्य सिद्धिसौधमध्यास्त ॥ श्रीजम्बूखामिखरूपं चैवम् राजगृहे ऋषभधारिण्योः पुत्रः पञ्चमस्वर्गाच्चयुतोऽवतीर्णः जम्बूनामा, शैशवातिक्रमे श्रीसुधर्म्मस्वामिसमीपे सुकृतश्रवणपुरस्सरं प्रतिपन्नशीलसम्यक्त्वोऽपि पित्रोईढाग्रहवशादष्टौ कन्याः परिणीतः परं न तासां प्रेमगर्भाभिर्वाग्भिर्व्यामोहं गतः, यतः - "सम्यक्त्वशीलतुम्बाभ्यां, भवाब्धिस्तीर्यते सुखम् । तें दधानो मुनिर्जम्बूः, स्त्रीनदीषु कथं जुडेंत् ॥१॥ ततो रात्रौ ताः प्रतिबोधयंश्वोर्यार्थमागतं चतुःशतनवनवेति चौरपरिकरितं प्रभवमपि प्राबोधयत्, ततः प्रातः पञ्चशतचौराष्ट्रप्रियाषोडशतज्जनकजननी खजनकजननीभिः सह स्वयं पञ्चशतसप्तविंशतितमो नवनवतिकनक कोटीः परित्यज्य प्रत्रजितः क्रमेण दुस्तपतपस्तप्यमानः केवलज्ञानं सम्प्राप्य, षोडशवर्षाणि गार्हस्थ्ये, विंशतिः छानस्थ्ये, चतुश्चत्वारिंशद्वर्षाणि केवलित्वे, इत्यशीतिवर्षाणि सर्वायुः परिपाल्य, श्रीप्रभवप्रभुं खपदे संस्थाप्य सिद्धिसौधमलञ्चक्रे । अत्र कविघटना - "जम्बूसमस्तलारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान् साधून्, चौरानपि चकार यः ॥ १ ॥ प्रभवोऽपि प्रभुर्जीया - चौर्येण हरता धनम् । मेऽव चौर्यहरं, रवत्रितयमद्भुतम् ॥ २ ॥ तत्र “बारसवरिसेहिं गोअमु, सिद्धो वीराउ बीसहिँ सुहुम्मो ।