________________
कमपि न प्रयच्छति, अहो अस्य वीतरागत्वं, नीरागे कः प्रतिबन्धः, एवं सर्वत्र निर्ममत्वं गता, शुभध्यानेन केवलज्ञानं प्राप्य तत्क्षणमेव सिद्धा । ततो भरतक्षेत्रे प्रथमसिद्ध इति कृत्वा देवैः पूजा कृता, शरीरं पुनः क्षीरसमुद्रे क्षिप्तम् । अत्र कविः - " सूनुर्युगादीशसमो न विश्वे, भ्रान्त्वा क्षितौ येन शरत्सहस्रम् । यदर्जितं केवलरलमध्यं, स्नेहात् तदेवार्प्यत मातुराशु ॥ १ ॥ मरुदेवा समा नाम्बा - यागात् पूर्व किलेक्षितुम् । मुक्तिकन्यां तनूजार्थ, शैवमार्ग खिलं चिरात् ॥ २ ॥” अत्र कवेः प्रार्थनाऽपि - " नो ददासि यदि तत्त्वधियं मे देहि मोहमपि तं जगदीश ! । येन मोहितमतिर्मरुदेवा, त्वन्मयं जगदपश्यदशेषम् ॥ ३ ॥” भगवानपि समवसरणमध्यस्थितः |सदेवमनुजायां पर्षदि धर्म्म कथयति । तत्र ऋषभसेनो नाम भरतपुत्रः पूर्वभवनिबद्धगण धरनामसत्ताकः सञ्जातसंवेगः प्रव्रजितो, ब्राह्म्यपि, भरतः पुनः श्रावकः सञ्जातः, स्त्रीरत्वं भविष्यतीति भरतेन निरुद्धा सुन्दर्यपि श्राविका सञ्जाता, इति चतुर्विधसङ्घस्थापना । ते च कच्छमहाकच्छवर्जाः सर्वेऽपि तापसा भगवतो ज्ञानोत्पत्तिमाकर्ण्य तत्रागत्य प्रत्रजिताः । एवं देवादिकृतमहिमानं दृष्ट्वा मरीचिप्रमुखा बहवः कुमाराः प्रत्रजिताः । यतः - “पंच य पुत्तसयाई, भरहस्स य सत्त नतु असयाई । सयराहं पवइआ, तम्मि कुमारा समोसरणे ॥ १ ॥”त्ति, भरतस्तु | शक्रनिवारितस्वामिनीमरणशोको भगवन्तं वन्दित्वा स्वस्थानं गत इति ॥ ॥ २१२ ॥
‘उसभस्स णं अरहओ कोसलियस्स चउरासीई गणा चउरासीई गणहरा हुत्था ॥ २१३ ॥ उसभस्स णं अरहओ कोसलियस्स उसभसेणपामुक्खाओ चउरासीओ समणसा