SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ कल्पसूक्ष 61 ॥१५२॥ 4555555 फग्गुणबहले, तस्स णं फग्गुणबहलस्स एक्कारसीपक्खे णं पुवन्हकालसमयंसि पुरिमतालस्त IXIकिरणाव नगरस्स बहिया सगडमुहंसि उजाणंसि नग्गोहवरपायवस्स अहे अट्रमेणं भत्तेणं अपाणएणं आसाढाहिं नक्खत्तेणं जोगमुवागएणं झाणंतरियाए वहमाणस्स अणंते जाव जाणमाणे पासमाणे विहरइ ॥ २१२॥ व्याख्या-उसभेणं अरहा कोसलिए इत्यादितः पासमाणे विहरइ ति यावत् , तत्र एगवाससहस्सं निचं वोसट्टकाए त्ति अथ चैत्रबहुलाष्टम्यां यथा भगवान् करिष्यति तथा वयमपीति कृतप्रतिज्ञैः खयमेव कृतचतुर्मुष्टिकलोचैः क्वचित्कृतपञ्चमुष्टिकलोचैरुग्रादिकुलसमुत्पन्नश्चतुःसहस्रसङ्ख्याकैरात्मीयपुरुषैः सह स्वयमेव सामायिकं प्रतिपद्य गृहीतघोराभिग्रहो भगवान् ग्रामानुग्राम विहरति । तदानीं लोकस्यातिसमृद्धत्वादर्थिनामभावात् कीदृशी भिक्षा कीदृशा वा भिक्षाचरा इति लोको न जानाति, तेन ते भिक्षामलभमानाः क्षुधादिबाधिततनवश्च मौनावलम्बिनो भगवत्सकाशादुपदेशमलभमानाः कच्छमहाकच्छौ प्रति विज्ञप्तिं कृतवन्तः 'भो ! अस्माकमनाथानां भवन्तौ नाथौ भवतां ॥१५२॥ यदस्माभिरेवं क्षुत्तृड्वाधितैः कियत्कालं स्थातव्यम्' तावप्याहतुः वयमपि न जानीमः, यदि पूर्वमेव भगवान् पृष्टोऽभविष्यत् तदा शोभनमभविष्यत् , इदानीं तु भरतलज्जया गृहे गन्तुमयुक्तम् , आहारमन्तरेण च स्थातुमप्यश-| क्यम् , अतो विचार्यमाणो वनवास एव श्रेयान् । तत्राप्युपवासरताः परिणतशटितपत्राद्युपभोगिनो भगवन्तमेव ।
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy