________________
व्याख्या – श्रीसुविधिनिर्वाणान्नवभिः सागरकोटिभिः श्रीशीतलनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकैर्द्वि चत्वा - रिंशता वर्षसहस्रैरुनायां सागराणामेकस्यां कोटावतिक्रान्तायां श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना ९ ॥ १९६ ॥
चंदष्पहस्स णं अरहओ जावप्पहीणस्स एवं सागरोवमकोडिसयं विइक्कतं सेसं जहा सीयलस्स तं च इमं तिवासअद्धनवमासाहियबायालीसवाससहस्तेहिं ऊणगमिच्चाइ ८ ॥ १९७ ॥ व्याख्या - श्रीचन्द्रप्रभनिर्वाणान्नवत्या सागरकोटिभिः श्रीसुविधिनिर्वाणं, ततश्च त्रिवर्षार्द्धनवमासाधिकैर्द्विचत्वारिंशता वर्षसहस्रैरूनासु दशसु सागरकोटिषु व्यतिक्रान्तासु श्रीवीरनिर्वाणं, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवा -
चना ८ ॥ १९७ ॥
सुपासस्स णं अरहओ जावप्पहीणस्स एगे सागरोवमकोडिसहस्से विइकंते सेसं जहा सीयलस्स तं च इमं तिवासअद्धनवमासाहियबायाली सवाससहस्सेहिं ऊणिया विइकंता इच्चाइ ७ ॥ १९८ ॥
व्याख्या - श्री सुपार्श्वनिर्वाणान्नवशतकोटिसागरैः श्रीचन्द्रप्रभनिर्वाणं, ततश्च त्रिवर्षार्द्धनव मासाधिकैर्द्विचत्वारिंशता वर्षसहस्रैरूनया सागराणामेकशतकोट्या श्रीवीरनिर्वृतिः, ततो नवशताशीतिवर्षातिक्रमे पुस्तकवाचना ७ ॥ १९८ ॥