SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र ॥७॥ भावाचंयमैः पर्यषितव्यमिति । एवं व्यावर्णितखरूपो दशधापि कल्पो दोषाभावेऽपि क्रियमाणस्तृतीयरसायमकल्पो। किरणाव० भवति, अतस्तदन्तर्गतः प्रस्तुतपर्युषणाकल्पोऽपि तत्कल्प एव । तृतीयरसायनखरूपं त्वेवं केनापि राज्ञा निजपुत्रस्थानागतचिकित्सायां कार्यमाणायां त्रयो वैद्याः समाहूताः, तेष्वाधः सन्तं व्याधिमपनयत्यसति चाभिनवं वितनोति इति स्वकीयरसायनखरूपं निरूपयन्नेव निवारितोऽलमनेन सुप्तसिंहोत्थापनकल्पेनेति । द्वितीयस्तु संतमपनयत्यसति च न किञ्चिदुपद्रवयति इति ब्रुवाणोऽप्युपेक्षितः कृतमनेनापि भस्मनि हुतकल्पनेति । तृतीयस्तु सन्तमपनयत्यसति च शरीरसौन्दर्यवीर्य-तुष्टि-पुष्टिप्रभृत्यनेकगुणसंपादकमितिभणन्नेव सत्कारितः, कारितं |च तदीयरसायनं खतनयं प्रतीति । तद्वदयमपि कल्पः सन्तं दोषं शोषयति पोषयति च तदभाषे चारित्रगुणान् , यतो यद्यपि संयताः समित्यादिषु यतमाना एव सर्वकालं भवेयुः, बह्वी च निर्जरा विहारे, तथापि विशेषतो वर्षासु वसुमत्या बहुप्राणाकुलितत्वेन सम्भावितप्राणवाधया एकत्रावस्थानेनैव यतनापरायणैर्भाव्यं, न पुनः शीतोष्णकालयोरिव प्रामानुप्रामगमनादिमद्भिः, यतो गमनागमने पथि बहुप्राणबाधासम्भवेन चारित्रगुणानामपि बाधा स्यात् । श्रूयते च त्रिखण्डभोक्ता श्रीकृष्णनरेन्द्रोऽपि प्रतिदिनं प्रणामार्थ बहुगजाश्वादिनिखिलपरिवारपरिकलितपोड-1 ससहस्रमुकुटबद्धनरेन्द्राणां गमनागमनेन कुन्थुपिपीलिकाधनेकजन्तूनामुपघातो मा भूयादिति धिया जीवदयानि- ॥७॥ |मित्तमेव वर्षाचतुर्मास्यां निजास्थानसभायामपि न समुपाविशदिति । ततो देवशयनैकादशी इति लोकरूढिरपीति । एवमन्यैरप्युत्तमैवषासु बहुसावद्यब्यापारदूरनामान्तरकरणपरिहारेण वतनापरायणैर्भाव्यम् । तस्मात्सर्वसाबद्यवर्जकैः
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy