SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ किरणाव कल्पसूत्र ॥११५॥ अहो ! सुराः कथं भ्रान्ताः, तीर्थाम्भ इव वायसाः । कमलाकरवझेका, मक्षिकाश्चन्दनं यथा ॥ १२॥ करभा इव सवृक्षान् , क्षीरानं शूकरा इव । अर्कस्याऽऽलोकवद् घूका-स्त्यक्त्वा यागं प्रयान्ति यत् ॥ १३ ॥ युग्मम् ॥ अहवा जारिसओ चिअ, सो नाणी तारिसा सुरा तेवि । अणुसरिसो संजोगो, गामनडाणं च मुक्खाणं ॥ १४ ॥ खगतम्योनि सूर्यद्वयं किं स्यात् , गुहायां केसरिद्वयम् । खगौ द्वौ वा प्रतीकारे, किं सर्वज्ञावहं स च ॥ १५ ॥ किन्त्वैन्द्रजालिकः कोऽपि, कलाशाली विदेशजः। सर्वज्ञाटोपमात्रेण, जनखर्गिप्रतारकः ॥ १६ ॥ सोऽवादीद् भो! जनाः कीटक् , सर्वज्ञोऽसौ निगद्यते । जनैरूचे खरूपं को, वक्तुं नामाऽस्य शक्नुयात् ॥ १७ ॥ स दध्यौ तबसौ नूनं, मायायाः कुलमन्दिरम् । कथं लोकः समस्तोऽपि, विभ्रमे पातितोऽमुना ॥ १८॥ न क्षमे क्षणमात्रं तु, तं सर्व कदाचन । तमःस्तोममपाकर्तुं, सूर्यो नैव प्रतीक्षते ॥ १९ ॥ वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदखनम् । क्षत्रियाश्च रिपुक्षेत्रं, न सहन्ते कदाचन ॥ २०॥ मया हि येन वादीन्द्रा-स्तूष्णीं संस्थापिताः समे । गेहेशूरतरः क्वासी, सर्वज्ञो मत्पुरो भवेत् ॥ २१ ॥ शैला येनाग्निना दग्धाः , पुरः के तस्य पादपाः । उत्पाटिता गजा येन, का वायोस्तस्य पुम्भिकाः ॥ २२ ॥ अग्निभूतिरुवाचैवं, भ्रातः! कस्तेऽत्र विक्रमः। कीटिकायां कथं पक्षि-राट् करोति पराक्रमम् ॥ २३ ॥ पद्मयोत्पाटने हस्ती, कुठारः काशकर्तने । मृगस मारणे सिंहः, सद्भिः किं क्वापि शस्यते ॥२४॥ गौतमो भ्रातरं प्राह-भो अद्याप्यवतिष्ठते । वाद्यसौ विहिते मुद्ग-पाके कटुको यथा ॥ २५ ॥ पीलयतस्तिलः क*श्चिद्, दलतश्च यथा कणः । सूडयतस्तृणं किञ्चि-दगते पिवंतःसरः ॥२६॥ मईयतस्तुषः कोऽपि, तबदेष ॥११५॥
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy