________________
किरणाo
कल्पसूत्र०
॥ ९१॥
5555ॐॐॐॐ
पाठविधिः स शुभ्रिमगुणारोपः सुधादीधितौ । कल्याणे कनकच्छटाप्रकटनं पावित्र्यसम्पत्तये, शास्त्राध्यापनमहतोऽपि यदिदं सल्लेखशालाकृतौ ॥१८॥ मातुः पुरोमातुलवर्णनं तत्, लङ्कानगर्या लहरीयकं तत् । तत्प्राभृतं लावणमम्बुराशेः, प्रभोः पुरो यद्वचसां विलासः ॥ १९ ॥ यतः-अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः । अनल-17 कारसुभगाः, पान्तु युष्मान् जिनेश्वराः ॥२०॥ अथ विप्रीभूयेन्द्रः, समागतस्तत्र चिन्तयामास । गाम्भीर्य-13 महो बाले, यदयं ज्ञाताऽपि न ब्रूते ॥२१॥ यतः-भूतं भावि भविष्यच, वस्तु सर्व जिनेश्वरः । अनन्तपर्ययोपित-माबाल्यादपि वेत्त्यसौ ॥ २२ ॥ यदि वा-गर्जति शरदिन वर्षति, वर्षति वर्षासु निःखनो मेघः । नीचो वदति न कुरुते, न वदति साधुः करोत्येव ॥ २३ ॥ असारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । नहि खर्णे
ध्वनिस्ताग, यादक् कास्ये प्रजायते ॥२४॥ अथ विप्रोचितपीठे, वीरं संस्थाप्य पृच्छति स्म हरिः। पण्डितसंशयलाविषयी-भूतानपि शब्दसन्दोहान् ॥ २५ ॥ तथा चागमः-सक्को य तस्समक्खं, भगवंतं आसणे निवेसित्ता । सहस्स||
लक्षणं पुच्छे, वागरणं अवयवा इंदं ॥ २६ ॥ तदा-वेदास्तांश्चतुरोऽपि वेत्ति गणितग्रन्थप्रमाणस्मृती-स्तान्यष्टादशलक्षणानि निखिलांस्तान् ससाहित्यकान् । छन्दोऽलङ्कतिनाटकान्यपि च यस्तस्य द्विजातेः पुरो, बालोऽसौ किमु वक्ष्यतीति सकलो लोकः स्थितः प्रोन्मुखः ॥ २७ ॥ अथ वर्द्धमानकुमरो, भनक्ति पण्डितमनःस्थसन्देहान् । सर्वानपि तदनन्तरमवदत् स पुरः सुराधिपतेः ॥ २८ ॥ आबालकालादपि मामकीनान्, यान् संशयान्न कोऽपि निरासयन्न । विभेद तांस्तान्निखिलान् स एष, बालोऽपि भोः पश्यत चित्रमेतत् ! ॥ २९॥ तदो
॥९१