________________
कल्पसूत्र०
॥ ८८ ॥
प्रसन्नः ॥ १ ॥ ततः स्थापितेन्दुमूर्ति विसर्जयेत्, कदाचिद्यदि तखां निशि चतुर्दशी जमावास्या वा स्यात् साने वा व्योम्नि चन्द्रो न दृश्यते तदाऽपि तस्यामेव सन्ध्यायां चन्द्रदर्शनं कार्यम्, अपरायामपि रात्रौ चन्द्रोदये भवतु तत्, अथ तस्मिन्नेव दिने प्रातः खर्णमयीं ताम्रमयीं वा सूर्यमूर्ति पूर्वविधिना संस्थाप्य 'ओ अहं सूर्योऽसि दिनकरोऽसि तमोऽ होऽसि सहस्रकिरणोऽसि जगच्चक्षुरसि प्रसीद" आशीर्वादश्चायम् - "सर्बसुरासुरवन्द्यः, कारयिताऽपूर्वसर्वकार्याणाम् । भूयात्रिजगच्चक्षुर्मङ्गलदस्ते सपुत्रायाः ॥ १ ॥” मातृपुत्रौ सुतकभयात्तत्र नामेयौ, ततः स्थापितसूर्यमूर्त्तिविसर्जनमित्यादिस्तत्कुलायातचन्द्रसूर्यदर्शनविधिः । सम्प्रति च तत्स्थाने शिशोर्दर्पणदर्शनं कार्यते । धर्मेण - कुलधर्मेण लोकधर्मेण वा षष्ठ्यां रात्री जागरणं - धर्म्मजागरिका ताम् । निवर्त्तितेऽतिक्रान्तेऽशुचीनां - अशौचवतां जन्मकर्म्मणा - नालच्छेदनादीनां यत्करणं तस्मिन्, द्वादशाख्यदिवसे उपस्कारयतः - रसवतीं निष्पादयतः, मित्राणि-सुहृदः, ज्ञातयः - सजातीयाः मातापितृभ्रात्रादयः, निजकाः - स्वकीयाः पुत्रादयः, खजनाः- पितृव्यादयः, सम्बन्धिनः- पुत्रपुत्रीप्रभृतीनां श्रसुरादयः, परिजनो - दासीदासादिः, ज्ञातक्षत्रियाः - ऋषभखामिसजातीयाः, आ-ईषत् स्वादयन्तौ - बहुत्यजन्ताविश्वादेखि, विशेषेण - आधिक्येन खादयन्तौ - अल्पं त्यजन्तौ खर्जूरादेवि, परि-सामस्त्येन भुञ्जनौ - अल्पमप्यत्यजन्तौ भोज्यम्, परिभाजयन्ती - अन्येभ्यो यच्छन्तौ खाद्यविशेषं मातापितराविति
प्रक्रमः ॥ १०४ ॥
किरणाव०
11 66 11