SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ असते समग्रमपि पुरुषः । कलयति दीनोऽपि महीं, ससुवर्णा सार्णवा नियतम् ॥ १४॥ हरणं प्रहरणभूषण-मणिमौक्तिककनकरूप्यकुप्यानाम् । धनमानम्लानिकर, दारुणमरणावहं बहुशः ॥ १५ ॥ आरूढः शुभ्रमिभं, नदीतटे शालिभोजनं कुरुते । मुझे भूमीमखिलां, स जातिहीनोऽपि धर्मधनः ॥ १६ ॥ निजभार्याया हरणे, वसुनाशः परिभवे च सक्लेशः । गोत्रस्त्रीणां तु नृणां, जायते बन्धुवधबन्धौ ॥ १७ ॥ शुभ्रेण दक्षिणयां, यः फणिना दश्यते निजभुजायाम् । आसादयति सहस्र, कनकस्य स पञ्चरात्रेण ॥ १८॥ जायेत यस्य हरणं, निजशयनोपानहां पुनः| खन्ने । तस्य म्रियते दयिता, निविडा खशरीरपीडापि ॥ १९ ॥ यो मानुषस्य मस्तक-चरणभुजानां च भक्षणं कुरुते । राज्यं कनकसहस्र, तदर्द्धमाप्नोत्यसौ क्रमशः ॥ २०॥ द्वारपरिघस्य शयन-प्रेजोलनपादुकानिकेतानाम् । भजनमपि यः पश्यति, तस्यापि कलत्रनाशः स्यात् ॥ २१ ॥ कमलाकररत्नाकर-जलसम्पूर्णापगाः सुहृन्मरणम् । यः पश्यति लभतेऽसा-वनिमित्तं वित्तमतिविपुलम् ॥ २२ ॥ अतितप्तं पानीयं, सगोमयं गडुलमौषधेन युतम् । सायः पिबति सोऽपि नियतं, म्रियतेऽतीसाररोगेण ॥ २३ ॥ देवस्य प्रतिमाया, यात्रास्त्रपनोपहारपूजादीन् । यो विद-15 धाति खमे, तस्य भवेत्सर्वतो वृद्धिः॥२४॥ खप्ने हृदयसरयां, यस्य प्रादुर्भवन्ति पनानि । कुष्टविनष्टशरीरो, यम-14 वसतिं याति स त्वरितम् ॥ २५॥ आज्यं प्राज्यं खप्ने, यो विन्दति वीक्ष्यते यशस्तस्य । तस्याभ्यवहरणं वा, क्षीरानेनैव सह शस्तम् ॥ २६ ॥ हसने शोचनमचिरात् , प्रवर्तते नर्त्तनेऽपि वधबन्धाः । पठने कलहश्च नृणा-मेतत् प्राज्ञेन |विज्ञेयम् ।। २७ ॥ कृष्णं कृत्स्नमशस्तं, मुक्त्वा गोवाजिराजगजदेवान् । सकलं शुक्लं च शुभं, त्यक्त्वा कसलवणा CONSORESEAR क. 456-51
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy