SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कल्पसूत्र किरणाव उभयाभावे नातिदूरे नातिसमीपे इत्यर्थः, यवनिकामांछयतीतिसम्बन्धः, नानामणिरत्नैर्मण्डितां अधिक प्रेक्षणीयांविलोकनीयां, महार्घा चासौ वरे पत्तने-वस्त्रोत्पत्तिस्थाने उद्गता च-व्यूता वरपट्टनाद्वा-प्रधानवेष्टनकादुद्गता-निर्गता, सूक्ष्मपट्टसूत्रमयो भक्तिशतचित्रस्तानको यस्यां, ईहामृगा-वृकाः, रुरवो-मृगभेदाः, शरभा-अष्टापदा, महाकायाआटव्यपशवः, चमराः-आटव्यगावः, शेषं सुगमं व्याख्यातं च प्राक् । आस्थानशालाया अभ्यन्तरभागवर्तिनी यवनिकां-काण्डपटी आकर्षयत्यायतां कारयतीत्यर्थः । आस्तरकेण प्रतीतेन मृदुमसूरकेण चावस्तृत-आच्छादितम् , अथवाऽस्तरजसा मृदुमसूरकेणेति योज्यम् , श्वेतवस्त्रेण प्रत्यवस्तृतं-उपर्याच्छादितं सुमृदुकं-कोमलमत एवाङ्गस्य सुखः-सुखकारी स्पर्शो यस्य, विशिष्टं-शोभनम् ॥ ६४ ॥ | खिप्पामेव भो देवाणुप्पिया ! अटुंगमहानिमित्तसुत्तस्थधारए विविहसत्थकुसले सुविणलक्ख णपाढए सद्दावेह, तएणं ते कोडंबियपुरिसा सिद्धत्थेणं रन्ना एवं वुत्ता समाणा हट्रतुद्र जाव हियया करयल जाव पडिसुणंति ॥६५॥ व्याख्या-खिप्पामेव इत्यादितः पडिसुणंति ति यावत्, तत्र अष्टाङ्ग-अष्टावयवं यथा-"अङ्गं १ खप्नं २ खरं ३ चैव, भीमं ४ व्यजन ५ लक्षणे ६ । उत्पात ७ मन्तरिक्षं ८च, निमित्तं स्मृतमष्टधा ॥१॥" तत्र पुंसां दक्षिणाओं स्त्रीणां वामाङ्गे स्फुरणं रम्यमित्यायविद्या १, खनानामुत्तममध्यमाधमविचारः खानविद्या २, गृहगोधा-कृक
SR No.600334
Book TitleKalpsutram
Original Sutra AuthorN/A
AuthorDanvijay Gani
PublisherAtmanand Jain Sabha
Publication Year1992
Total Pages426
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy