________________
कल्पसूत्र०
॥ ६ ॥
"तेषां विजयिनि राज्ये, राजन्ते सकलवाचकोत्तंसाः । श्रीधर्मसागराहा, निखिलागम - कनककषपट्टाः ॥ १ ॥ कुमतिमतमतङ्गजकुम्भ - स्थलपाटनपाटचेन सिंहसमा । दुर्दमवादिविवादा-दपि सततं लब्धजयवादाः ॥ २ ॥ " प्रोक्तान्यत्र त्रीण्यपि वाचनानि सुन्दरपद्धत्या परं वादिमुखभंजकैरेभिः पूज्यैर्वादस्थानानि तु प्रायः सर्वाण्यपि सविस्तरं वर्णितानि, श्रीजिनवल्लभोपशं षट्कल्याणकमतं तु सर्वाभिमताभियुक्तश्रीमद्धरिभद्रसूर्यभयदेवसूरिपादवचनदर्शनेन निर्लोठितं सम्यक्तया, नूतनमेवैत|न्मतम्, श्रीजिनवल्लभेनाभिनिवेशबलेनैव समर्थितं न त्वनाभोगेनेत्यादिकं सर्वमपि साधितं जिनदत्ताचार्यकृतगणधरसार्धशतकस्य वृत्त्याधारेण जिनदत्ताचार्यकृतोत्सूत्रपदोद्घाटनकुलकाधारेण च सयुक्तिकम्, “हंतूण सव्यमाणं, सीसो होऊण ताव सिक्खाहि । सीसस्स हुंति सीसा, न हुंति सीसा असीसस्स || १ ||" इत्यागमवचनेन प्रतिषिद्धं तस्य सुविहिताप्रणीत्वम्, कथमिति चेत् १ प्रोक्तं तैरेव चैत्यवासं परित्यज्य कस्याऽपि सुविहितस्य पार्श्वे चारित्रस्याऽमहात्, नवीनमतप्रवर्चनेन संघब्राह्मत्वाच" स यदि सङ्घबाह्यो नो चेत् कथमुपन्यस्तेन
“सङ्घात्राकृतचैत्यकूटपतितस्यान्तस्तरां ताम्यतः, तन्मुद्रादृढपाशबन्धनवतः शक्तस्य न स्पन्दितुम् ।
मुक्त्यै कल्पितदानशीलतपसोऽप्येतत्क्रमस्थायिनः, सङ्घव्याघ्रवशस्य जन्तुहरिणत्रातस्य मोक्षः कुतः ॥ १ ॥”
अनेन स्वकीयसङ्घपट्टकसूत्रसत्केन त्रयस्त्रिंशत्तमकाव्येन तत्कालवर्तिनं श्रीसङ्कं व्याघ्रोपमयोपावर्णयिष्यत् कथं वा तस्य तट्टीकायां ऐदंयुगीनसङ्घप्रवृत्तिपरिहारेण 'सङ्घत्वाह्यत्वप्रतिपादनममीषां भूषणं न तु दूषणं' इति रीत्या सङ्घबाह्यता व्याख्यास्यत् ? अधिकमासीयाऽपि चर्चा सम्यक् विहिता, स्थापितं च भाद्रपदसितचतुर्थ्यामेव युक्तं पर्युषणापर्वेति ।
संशोधितमेतत् सर्वमपि न्यायाम्भोनिधि - सत्सिद्धान्तरहस्याविर्भावोन्मूलितानल्पजनशङ्कासन्दोहस्वकीयसुधासदृशस्याद्वादपूर्णसदुपदेशसंश्रीणितसकलश्रोतृसमुदय-सन्यायानुगतसत्पथप्रदर्शनप्रबोधितपांचालस्थलुम्पकमत सुग्धभव्य सत्त्वसमूह - सकलकुमतसतमतङ्गजकुम्भस्थलपाट
किरणाव० प्रस्ता०
॥६॥