________________
गु-वं.भाष्य
सावचूरि०
RAKAK
RA%
A
॥श्रीमद्देवेन्द्रसूरीन्द्रसंदृब्धं गुरुवन्दनभाष्यम् ॥
(श्रीसोमसुन्दरसूरिविरचितावचूरिभूषितम् ) । गुरुवंदणमह तिविहं, तं फिट्टा छोभ बारसावत्तं ।सिरनमणाइसु पढमं, पुन्नखमासमणदुगि बीअं ॥१॥
· अथेत्यानन्तर्यार्थे चैत्यवन्दनानन्तरं गुरुवन्दनं कथ्यत इत्यर्थः। तद्गुरुवन्दनं त्रिविधं भवति-फिट्टावन्दनं १, छोभवन्दनं २, द्वादशावर्त्तवन्दनं ३ चेति । तत्र प्रथमं फिट्टावन्दनं शिरोनमूनादिभिर्भवति, आदिशब्दात्करयोजनाञ्जलिकरणादि गृह्यते १। प्राकृतत्वाच्च तृतीयार्थे सप्तमी, एवं विभक्तिव्यत्ययः सर्वत्र प्राकृतत्वाज्ज्ञेयः। द्वितीयं छोभवन्दनं पूर्णक्षमाश्रमणद्विकदाने सति भवति २॥१॥ अत्र शिष्य आह-अत्र छोभवन्दने द्वादशावर्तवन्दनेऽपि च प्रथममेकशो वन्दित्वा पुनर्द्वितीयवारं वन्दनं कस्मास्क्रियते ? इत्याहजह दूओ रायाणं, नमिउं कजं निवेइउं पच्छा । वीसजिओऽवि वंदिय, गच्छइ एमेव इत्थ दुगं॥२॥ | यथा दूतो राजानं नत्वा कार्य निवेद्य च पश्चाद्विसर्जितोऽपि राजानं वन्दित्वैव गच्छति, नान्यथा । एवमत्रापि वन्दनकद्विकं दातव्यम् ॥२॥ आयारस्स उ मूलं, विणओ सो गुणवओय पडिवत्ती।साय विहिवंदणाओ, विही इमो बारसावत्ते ॥३॥
1अ-च-'ज्ञातव्यम्' इति ॥
RCASSES
A LASAKS