________________
वृहत्सं०
॥ ३५ ॥
व्याख्या-सुगमा ॥ ७८ ॥
सम्प्रत्येतन्मतेन प्रतिघीपं प्रतिसमुद्रं च चन्द्रसूर्यपरिमाणकरणाय करणमुच्यते— | गठोत्तरसंवग्गो उत्तरही पम्मि परिकवे श्राइं । अंतिमघणमाइजु गष्ठद्धगुणं तु सब्बद्धणं ॥ ७९ ॥ व्याख्या—यत्र द्वीपे समुद्रे वा यावत्यः पङ्क्तयस्तत्र तावान् गष्ठ उत्तरं चतुष्क उत्तरोत्तरपङ्क्तौ चतुष्कस्य प्रवर्धमानत्वात्, तत्र गन्नुस्योत्तरेण चतुष्केण संवर्गो गुणना क्रियते, ततः स उत्तरेण चतुष्केण हीन उत्तरहीनो विधीयते, तस्मिन् गनोत्तरसंवर्गे उत्तरहीने आदिं प्रथमपक्किपरिमाणां प्रक्षिपेत् । ततोऽन्तिमधनमन्तिमपङ्क्तिपरिमाणमागछति । ततस्तदे| वान्तिमधनमादिना युतं कृत्वा गन्नुार्धेन गुण्यते, ततः सर्वधनं विवक्षिते दीपे समुद्रे वा सर्वपङ्किगतचन्द्रसूर्यपरिमाणमा|यातीति । तत्र पुष्करवरदीपोत्तरार्धेऽष्टौ पङ्कय इति श्रष्टको गनुः, स उत्तरेण चतुष्केण गुण्यते, जाता द्वात्रिंशत् ३२, सा उत्तरेण चतुष्केण हीना क्रियते, शेषा स्थिताऽष्टाविंशतिः २०, तत्र प्रथमपङ्क्तिपरिमाणं चतुश्चत्वारिंशं शतं प्रक्षिप्यते, जातं द्विसप्तत्यधिकं शतं १७२, एतावन्तः पुष्करवरधीपोत्तरार्धेऽष्टमपङ्कौ चन्द्रसूर्याः समुदिता इति, तदेतदादिना प्रथमपङ्किपरिमाणेन चतुश्चत्वारिंशेन शतेन युतं क्रियते, जातानि त्रीणि शतानि षोरुशोत्तराणि ३१६, एतानि गनुस्याष्टकरूपस्यार्धेन चतुष्केण गुण्यन्ते, जातानि द्वादश शतानि चतुःषष्ट्यधिका ने १२६४, एतावन्तः पुष्करवरद्वीपोत्तरार्धे सर्वसयया समुदिताः सूर्याश्चन्द्रमसः । तथा पुष्करवरोदे समुझे द्वात्रिंशल्लक प्रमाणविष्कम्ने वात्रिंशत्पङ्कय इति द्वात्रिंशः, स उत्तरेण चतुष्केण गुण्यते, जातमष्टाविंशं शतं १२८, तत उत्तरेण चतुष्केण हीनं क्रियते, जातं चतुर्विंशं शतं १२४,
सटीकः ॥
॥ ३५ ॥