________________
वृहत्सं०
सटीका
तदेवमुक्ता ज्योतिष्काणामुत्कृष्टा जघन्या च स्थितिः । सम्प्रति वैमानिकानामुत्कृष्टां स्थितिमाहद दो साहि सत्त साहिय दस चउद्दस सत्तरेव श्रयराई। सोहम्मा जा सुक्को तमुवरि इक्विकमारोवे ॥१२॥ | व्याख्या-सौधर्मात् सौधर्मकहपात् यावत् शुक्रो महाशुक्रानिधः कहपस्तावदनेन क्रमेणोत्कृष्टा स्थितिः प्रतिपत्तव्या, तद्यथा-सौधर्मे कहपे देवानामुत्कृष्टा स्थिति अतरे इति संबध्यते, तरीतुमशक्यं प्रनूतकालतरणीयत्वात् श्रतरं साग-| रोपमं, के सागरोपमे इत्यर्थः । ईशाने कहपे ते एव के सागरोपमे साधिके किञ्चित्समधिके उत्कृष्टा स्थितिः । सनत्कुमारे ४ कटपे उत्कृष्टा स्थितिः सप्त सागरोपमाणि । माहेन्जकहपे तान्येव सप्त सागरोपमाणि साधिकानि । ब्रह्मलोके कहपे दश |सागरोपमाणि । सान्तके कटपे चतुर्दश । महाशुक्रे कहपे सप्तदश । “तवरि इक्विकमारोवे” इति तस्य महाशुक्रस्य कहप-11 स्योपरि प्रतिकरूपं प्रतिवेयकं च पूर्वस्मात् पूर्वस्मादधिकमेकैकं सागरोपममुत्कृष्टायुश्चिन्तायामारोपयेत्। तद्यथा-सहस्रारे| कहपेऽष्टादश सागरोपमाएयुत्कृष्टा स्थितिः। श्रानतकहपे एकोनविंशतिः।प्राणतकटपे विंशतिः। श्रारणकहप एकविंशतिः। अच्युते कहपे दाविंशतिः । अधस्तनाधस्तनप्रैवेयके त्रयोविंशतिः। अधस्तनमध्यमवेयके चतुर्विंशतिः । अधस्तनोप-18 रितनग्रैवेयके पञ्चविंशतिः । मध्यमाधस्तनौवेयके षड्विंशतिः । मध्यममध्यमवेयके सप्तविंशतिः । मध्यमोपरितनप्रैवेयके ष्टाविंशतिः। उपरितनाधस्तनवेयके एकोनत्रिंशत् । उपरितनमध्यमवेयके त्रिंशत् । नपरितनोपरितनप्रैवेयक एकत्रिंशत् । विजयवैजयन्तजयन्तापराजितविमानेषु पुनरुत्कृष्टा स्थितिस्त्रयस्त्रिंशत्सागरोपमाणि । सर्वार्थसिद्धे तु महाविमाने : त्रयस्त्रिंशत्सागोपमाणि अजघन्योत्कृष्टा स्थितिः॥१२॥
-BALRAMANACHER
॥१२॥