________________
यस्यां शैला निधायां पृथिव्यां कापोतखेश्या नीललेश्या च । केषुचिदुपरितनेषु प्रस्तटेषु कापोतलेश्या, सा च द्वितीयपृथि वीगतकापोतलेश्यापेक्षयातिसंक्लिष्टतरा विज्ञेया । अधस्तनेषु तु प्रस्तटेषु नीललेश्या । ततश्चतुर्थ्यामञ्जनायां पृथिव्यां केवला नीललेश्या, सा च प्राक्तननी सलेश्यामपेक्ष्या विशुद्धतरा प्रतिपत्तव्या । “किएहा नीला य रिहाए त्ति" रिष्टायां पञ्चम्यां पृथिव्यां नीललेश्या कृष्णलेश्या च । केषुचिदुपरितनेषु प्रस्तटेषु नीललेश्या, सा चातिसंक्लिष्टतमा । श्रधस्तनेषु तु प्रस्तटेषु कृष्णलेश्या । षष्ठ्यां मघायां पृथिव्यां केवला कृष्णलेश्या, सा च पञ्चमपृथिवी गतकृष्णलेश्यापेक्षयाऽविशुद्धतरा । | सप्तम्यां माघवत्यां पृथिव्यामतिसंक्लिष्टतमा कृष्णलेश्या । उक्तं च जगवत्यां - "काऊ दोसु तइयाए, मीसिया नीलिवा | चलत्थीए । पंचमिश्राए मीसा, किदा तत्तो परम किएहा ॥ १ ॥ ॥ २८८ ॥
I
अमुमेवार्थ स्पष्टयन्नाह -
| काऊ काऊ तह काजनील नीला य नील किएहा य। कि एहा कि हा य तदा सत्तसु पुढवीसु बेसा ॥२८॥ व्याख्या - इयं गाथा व्याख्यातार्थैवेति न व्याख्यायते । अत्र केचिद्व्याचक्षते — यथैता नारकाणां प्रागुक्ताश्च सुराणां बाह्यवर्णरूपाः किल अव्यलेश्याऽवगन्तव्याः, अन्यथाधः सप्तमनरकपृथिवीवासिनां नारकाणां या सम्यग्दर्शनावाप्तिर - निधीयते ग्रन्थान्तरेषु सा न युक्तिमियर्ति, यस्मादुपरितनीष्वेव तेजोलेश्याप्रनृतिषु तिसृषु लेश्यासु सम्यक्त्वावाप्तिर्जवति, नाद्यासु तिसृषु लेश्यासु । तथा चोक्तमावश्यके – “सम्मत्तस्स उ तिसु, उवरिमासु परिवकमाणा होइ । पुषपविन्न पुए, लयरीए उ लेसाए ॥ १ ॥ " उपरितन्यश्च तेजोलेश्यामनृतयो लेश्याः सप्तमनरकपृथिवीनारकाणां न