________________
ततो देवो नाम दीपः तदनन्तरं देवः समुद्रः, ततो नागो दीपस्ततो नागः समुद्रः, ततो यक्षो दीपो यक्षः समुद्रः, ततो जूतो दीपो नूतः समुद्रः, ततः स्वयम्भूरमणो द्वीपः स्वयम्भूरमणः समुद्र इति । एते च देवादयः पञ्च दीपा देवादयः पञ्च समुद्रा एकरूपाः, न पुनरेषां त्रिप्रत्यवतारः । उक्तं च जीवाजिगमे - "देवे नागे जरके जूए अ सयंजुरमणे छा । इकिके चैव जाणियवे तिपमोचारया नत्थि ॥ १ ॥” इति । 'आजरणवत्थगंधे' इत्यादौ प्रथमा षष्ठयर्थे वेदितव्या प्राकृतत्वात्, प्राकृते हि व्यत्ययोऽपि विजक्तीनां जवति । इद जम्बूदीप इति नाम्नाऽसङ्ख्या दीपा श्रवगन्तव्याः, लवण | इति नाम्नाऽसङ्ख्येयाः समुद्राः समूह्याः । एवं तावषाच्यं यावत्सूर्यवरावजास इति नाम्नाऽसङ्ख्येयाः समुद्राः । ये तु पञ्च | देवादयो दीपाः पञ्च देवादयः समुद्रास्ते एकप्रकाराः नैतेषां नामजिरन्ये दीपसमुद्राः । उक्तं च जीवाजिगमे - "केवइचा एणं जंते ! जंबुद्दीवा दीवा पन्नत्ता ? गोयमा ! असंखिया जंबुद्दीवा दीवा पन्नता, एवं जाव सूरवरावभासा समुद्दा असंखिता । केवइया णं जंते देवदीवा ? गोयमा एगे देवद्दीवे पन्नत्ते, दस वि एगागारा इति ॥ ९३-९४ ॥
तदेवमुक्का प्रसङ्गतो द्वीपसमुद्रवक्तभ्यता, सम्प्रति चन्द्रमसो नक्षत्रादिज्योतिष्कदेवाधिपतय इति तत्परिवारसङ्ख्यामाह - अठासी च गद्दा अठावीसं च हुंति नरकत्ता । एगससी परिवारो एत्तो तारागणं वुद्धं ॥ ए५ ॥ व्याख्या - एकस्य शशिनः परिवारो ग्रहा मङ्गलादयोऽष्टाशीतिसङ्ख्या, नक्षत्रास्य जिजिदादीनि श्रष्टाविंशतिसङ्ख्यानि । श्रत ऊर्ध्व तारागणं परिवारजूतं वक्ष्ये ॥ ९५ ॥
*% *% *%%%