SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ मयाधिकावलिकाशेषे वर्तमानस्य जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च । शेषा सर्वाप्यजघन्या । सा चानादिः, सदैव भावात् । ध्रुवाध्रुवे पूर्ववत् । तैजससप्तकादीनां च त्रयस्त्रिंशत्संख्याकानां नामप्रकृतीनां जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये । सा च | सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या, सा चानादिः । ध्रुवाध्रुवे पूर्ववत् । एतासामेव मिथ्यात्वादिप्रकृतीनामष्टचत्वारिंशत्संख्याकानां शेपविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विप्रकाराः, तद्यथा-सादयोध्रुवाश्च । तथाहि-एतासामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्ट संक्लेशे वर्तमानस्य कियत्कालं लभ्यते । ततः समयान्तरे तस्याप्यनुत्कृष्टा । ततो द्वे अपि साद्यधुवे । जघन्या च प्रागेव भाविता। 'सव्वविगप्पा य सेसाणं ति-शेषाणां शेषप्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपा द्विविधाः, | तद्यथा-सादयोऽध्रुवाश्च । साद्यध्रुवत्वं चाध्रुवोदयत्वाद्भावनीयमिति ॥३१॥ (उ०) तदेवं कृता मूलप्रकृतिविषया साधनादिप्ररूपणा, अथोत्तरप्रकृतिविषयां तां चिकीर्षुराह-मिथ्यात्वस्याजघन्या स्थित्यु-12 | दीरणा चतुर्धा-साधनादिध्रुवाध्रुवभेदात् । तत्र मिथ्यादृष्टेराद्यसम्यक्त्वमुत्पादयतो मिथ्यात्वस्याद्यस्थितौ समयाधिकावलिकाशेषायां जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च । सम्यक्त्वाच्च पततोजघन्या, सा च सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवे | अभव्यभव्यापेक्षया । तथा ध्रुवोदीरणानां ज्ञानावरणपश्चकदर्शनावरणचतुष्कान्तरायपश्चकतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणाख्यानामजघन्या स्थित्युदीरणा विधा-अनादिध्रुवाध्रुवभेदात् । तथाहि-ज्ञानावरणान्तरायपञ्चकदर्शनावरणचतुष्काणां क्षीणकषायस्य स्वगुणस्थाने समयाधिकावलिकाशेषे जघन्या स्थित्युदीरणा, सा च सादिरध्रुवा च । शेषा सर्वाऽप्यजघन्या, सा चानादिः, सदैव भावात् । ध्रुवाध्रुवे पूर्ववत् । तैजससप्तकादित्रयस्त्रिंशन्नामप्रकृतीनां जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये,
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy