SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Ra कर्मप्रकृतिः | ॥४५॥ Date:2 स्थितिसत्कर्मणो लभ्यते । ततः तस्यैव समयान्तरे प्रवर्धमानसत्कर्मणोऽजघन्या, ततः पुनरपि जघन्येति जघन्याऽजघन्या च सादिरध्रुवाच । आयुषः पर्यन्तावलिकायां न भवति, परभवोत्पत्तिप्रथमसमये च भवति, ततः सादिरधुवा च । तथा सर्वासां प्रकृतीनां | शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विधा - द्विप्रकाराः, तद्यथा - सादयोऽध्रुवाच । तथाहि सर्वेषामपि कर्मणामायुर्वजनामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टे संक्लेशे वर्तमानस्य कियत्कालं प्राप्यते, ततः समयान्तरे तस्याप्यनुत्कृष्टा, ततः पुनरपि समयान्तरे उत्कृष्टा, संक्लेशविशुद्धयोः प्रायः प्रतिसमयमन्यथाभावात् ततो द्वे अपि साद्यध्रुवे । जघन्या च द्विधा प्रागेव भाविता | आयुषां तु विकल्पत्रयेऽपि युक्तिः प्राक्तन्येव प्रायोऽवसेया ||३०|| ( उ० ) - अथ साद्यनादि प्ररूपणा कार्या, सा द्विधा - मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्राद्यं साद्यनादिप्ररूपणार्थमाह-इह मूलस्थितिशब्दौ द्वावपि लुप्तषष्ठीविभक्तिकौ । ततोऽयमर्थः - मूलप्रकृतीनां मध्ये मोहस्य स्थितेरुदीरणाऽजघन्या चतुर्विधा - सादिर| नादिधुवाऽध्रुवा चेति । तथाहि — मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्मसंपरायक्षपकस्य स्वगुणस्थाने समयाधिकावलिकाशेषे भवति, | ततोऽन्यत्र सर्वत्राप्यजघन्या, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, धुवाऽभव्यानां, अध्रुवा भव्यानाम् । शेषा ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां स्थित्युदीरणाऽजघन्या त्रिधा - अनादिर्घुवाऽध्रुवा चेति । तथाहिज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदीरणा क्षीणकषायस्य स्वगुणस्थाने समयाधिकावलिकाशेषे भवति, शेषकालं त्वजघन्या, सा चानादिः सदैव भावात् । ध्रुवाभ्रुवे पूर्ववत् । नामगोत्रयोस्तु जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये, सा च सादिरधुवा च, ततोऽन्या सर्वाऽप्यजघन्या, सा चानादिः सदा भावात् । ध्रुवाधुवे पूर्ववत् । वेदनीयायुषोरजघन्या स्थित्युदीरणा द्विधा, तथाहि K स्थित्युदी रणा ॥४५॥
SR No.600331
Book TitleKarmprakrutau Udirnakaranam
Original Sutra AuthorN/A
AuthorUnknown
PublisherZZZ Unknown
Publication Year
Total Pages212
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy