________________
ICENSIONERICERICA
णस्थिति तेण सादिय अधुवा ठितिउदीरणा। 'सेसविग्गप्पा य सव्वासिं' ति-सेसविगप्पत्ति उक्कोसो (अणुहक्कसो) जहण्णा सादिय अधुवा । कहं ? भण्णइ-सव्वेसिं कम्माणं आउगवजाणं उक्कोसियहितिउदीरणा | | मिच्छाद्दिहिस्स लब्भइ । उक्कोसियाउ ठितीउदीरणाउ अणुक्कोसं जाति, अणुक्कोसियातो पुणो उक्कोसं|
जातित्ति, तम्हा सातियअधुवो । जहणिया ठितिउदीरणा एगसमयत्ति तेण सादिय अधुवा ॥३०॥ | (मलय०) तदेवं कृता भेदप्ररूपणा । सम्प्रति साधनादिप्ररूपणा कर्त्तव्या । सा च द्विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया | च। तत्र मूलप्रकृतिविषयसाधनादिप्ररूपणार्थमाह-'मूलठिई' त्ति । मूलस्थितिशब्दाभ्यां प्राकृतत्वात् प्रत्येकं षष्ठीविभक्तिलोपः। ततोऽयमर्थः-मूलप्रकृतीनां मध्ये मोहस्य-मोहनीयस्य स्थितेरुदीरणाजघन्या चतुर्विधा-चतुष्प्रकारा । तद्यथा-सादिरनादिर्धवाऽध्रुवा च। तथाहि-मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्मसंपरायस्य क्षपकस्य स्वगुणस्थानकसमयाधिकावलिकाशेषे वर्तमानस्य भवति । ततो ऽन्यत्र सर्वत्राप्यजघन्या, सा चोपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाऽभव्यानां, अधुवा भव्यानाम् । शेषा ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां स्थित्युदीरणाऽजघन्या त्रिधा-त्रिप्रकारा, तद्यथा-अनादिधुवाऽध्रुवा च । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदीरणा क्षीणकषायस्य स्वगुणस्थानसमयाधि-5 कावलिकाशेषे वर्तमानस्य भवति, शेषकालं त्वजघन्या । सा चानादिः, सदैव भावात् । ध्रुवाध्रुवे पूर्ववत् । नामगोत्रयोस्तु जघन्या है। | स्थित्युदीरणा सयोगिकेवलिचरमसमये । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या । सा चानादिः । ध्रुवाधुवे पूर्ववत् । वेद-14 नीयायुषोरजघन्या स्थित्युदीरणा द्विधा, तद्यथा-सादिरधुवा च । तथाहि-वेदनीयस्य जघन्या स्थित्युदीरणा एकेन्द्रियस्य सर्वस्तोक-13
AGOINOMICRACK